पृष्ठम्:बीजगणितम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - अथ करणीषड्डिधम् । तंत्र संकलनव्यवकलनयोः करणसूत्रं वृत्तद्वयम्- योगं करण्योर्महती प्रकल्प्य घातस्य मूलं द्विगुणं लघु च । योगान्तरे रूपवदेतयोः स्तो वर्गेण वर्ग गुणयेद्धजेच ॥ १३ ॥ लव्या हृतायास्तु पदं महत्याः • सैकं निरेकं स्वहतं लघुघ्नम् । योगान्तरे स्तः क्रमशस्तयोर्वा पृथक स्थितिः स्याद्यदि नास्ति मूलम् ॥ १४ ॥ करणीषड्विधं व्याख्यायते- तंत्र तावदिन्द्रवज्रोपजातिका- भ्यां करणी संकलनव्यवकलने गुरगनभजनयोश्च विशेष प्रतिपाद- यति यस्य राशेर्मूलेऽपेक्षिते निरग्र मूलं न संभवति स ' करणी इत्युच्यते | करण्योयेंगेऽन्तरे वा कर्तव्ये रूपवत् कृतो यः करणी- योगः सा ' महती करणी' इति कल्पयेत् | करण्योत मू द्विगुणं सा ' लघु: करणी ' इति कल्पयेत् । तयोर्लघुमहत्योः कल्पित करण्यो रूपवते ये योगान्तरे ते प्रथमकरण्योयोगान्तरे स्तः । अथ ' अव्यक्तवर्गकरणीगुणनासु चिन्त्यः' इत्यादिना भाज्याद्धरः शुध्यति- ' इत्यादिना च करणीगुणनभजनयोः सिद्धौ सत्यामपि तत्र विशेषमाह - 'वर्गेण वर्ग गुरणयेद्भजेच' इति । एतदुक्तं भवति- करणीगुणने कर्तव्ये यदि रूपाणां गुरुयत्वं गुण- कत्वं वा स्यात् करणीभजने कर्तव्ये यदि रूपाणां भाज्यत्वं भाजक- 4