पृष्ठम्:बीजगणितम्.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थालङ्कारः । • नवत्र स्वल्पमुक् पूर्वबीजानि त्वतिविस्तृतान्यतस्तान्येव मन्दप्रयो- जनायालमिति शङ्कायामाह- दुस्तर इति । यो हि विस्तरः स मन्द- भयोजकः सुधीप्रयोजको वा । नायः । यतः शाखविस्तरवारिधिः स्तोकबुद्धीनां दुस्तरो दुरवगाहः | नान्त्यः | सुधियामपि शास्त्रविस्तृत्या किं कार्यम् । यतस्ते कल्पनाकल्पका: । ननु लध्वपि बीजं मन्दप्रयो- जर्क सुधीप्रयोजकं वा । नायः । तैर्ज्ञादुमशकत्वात् । नान्त्यः | तेषां कल्पकत्वात् । इति चेन्न, स्वल्पग्रन्थस्य मन्दानामभ्याससाव्य- त्वान्न तावदाद्यपक्षे दोषः। द्वितीयेऽपि न दूषणमित्याह • उपदेशलवं शास्त्रं कुरुते धीमतो यतः । तत्तु प्राप्यैव विस्तारं स्वयमेवोपगच्छति ॥ १६ ॥ उपदेशलवमिति । यतः शास्त्रं धीमत उपदेशलवं कुरुते तत्तु शास्त्रं सुधियं प्राप्यैवं स्वयमेव विस्तारमुपगच्छति । न हि सुप्रियोऽपि किंचि दनधीत्य जानन्ति | इदं मदुक्तं सुषमन्दसाधारणप्रयोजनायोत सर्वैरपि पठनीयम् || अत्र दृष्टान्तमाह - जैले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तिः ॥ १७ ॥ जले इति । मनाक् ईषदपि तैलं जले वस्तुशक्तिः वस्तुशक्ति महिम्ना स्वयं विस्तारं याति | बिन्दुमात्रमपि तैलं सलिले प्रक्षिप्त सद्भुतमेवाबद्धचन्द्रककलापेन तत्सलिलमाच्छादयतीति तात्पर्यम् । -- 2 १ ‘ जले -' इत्यस्य प्राक् ‘ यथोक्तं यन्त्राध्याये ' इति पाठः ग्रायो मूलपुस्तक उपल भ्यते । २'वस्तुशक्तितः ' इत्यस्याओ' तथा गोले मयोक्तम्- उल्लसदमलमतीनां त्रैराशिक- मात्रमेव पाटी बुद्धिरेव बीजम् । तथा गोलाध्याये मयोक्कम् अस्ति त्रैराशिकं पाटी बीजं च विमला मतिः । किंमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते । इत्यपि पाठः प्रायो मुलपुस्तकें इश्यंत परं टीकाकारैर्न स्वीकृतः ।