पृष्ठम्:बीजगणितम्.pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थालङ्कारः । आसीन्महेश्वर इति प्रथितः पृथिव्या माचार्यवर्यपदवीं विदुषां प्रयातः । लब्ध्यावबोधकलिकां तत एव चक्रे तज्जेन बीजगणितं लघु भास्करेण ॥ ६१ ॥ अथ प्रकृतग्रन्थस्य मचारार्थं गुरुत्कर्षप्रतिपादनात्मकं मङ्गलमाचर- न्यबन्धसमाति दर्शयति आसीदिति | विदुषां पण्डितानां मध्ये आचार्य वर्यपदवीं प्रातः । अत एव पृथिव्यां प्रथितः | अनन्यसाधार गाचार्योपाधिभाया जगत्मसिद्ध इत्यर्थः । 'महेश्वरः' इत्यासीत् । तज्जेन तदङ्गजन्मना भास्करेंग ततो महेश्वराचार्याकां ज्ञानकलिकां लब्धा प्राप्य लघु पाठेन स्वल्पकार्य वीजगणितं चक्रे । वसन्ततिलकादृत्तमेतत् || ब्रह्माहय श्रीधरपद्मनाभ बीजानि यस्मादतिविस्तृतानि । सरकार नूनं सयुक्तियुक्तं लघु शिष्यतुष्टयै ॥ १२ ॥ Sw ननु बीजगणितानि ब्रह्मगुप्तादिभिः प्रतिपादितानि तत्किमर्थमाचा- येंरें यतितमिति शङ्कायामुत्तरमाह-ब्रह्मेति । ब्रह्मायो ब्रह्मगुप्तः, • श्रीधरः श्रीधराचार्य, पद्मनाभः, एतेषां वीजानि यस्मात् अतिविस्तृ तानिं तस्मात् सारमाढाय शिष्याणां तुष्टयै सयुक्तियुक्तं सत्यः समी- चीना या गुलय: मनरूपा वासनारूपा वा ताभिर्युक्कं लघु तद्- बीजमकारि नूनम् | इन्द्रवज्रावृत्तमदः || अत्रानुष्टुप्सहस्रं हि ससूत्रोदेशके मितिः । ननु कथं लावत्याशङ्कायामाह - अत्रेति | हि यतोऽत्र ससूत्रोद्देशके