पृष्ठम्:बीजगणितम्.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - हरभक्का यस्य कृतिः शुष्यति सोऽपि द्विरूपपदगुणितः | तेनाहतोऽन्यव रूपपदेनान्वितः कल्प्यः ॥ 6. न यदि पदं रूपाणां क्षिपेद्धरं तेषु हारतष्टेषु | तावद्यावर्गो भवति न चेदेवमपि खिलं तर्हि ॥ हित्वा क्षिप्त्वा च पदं यत्राद्यस्येह भवति तत्रापि | आलापतएव हरो रूपाणि तु शोधनादिसिद्धानि ॥' हर भक्तेति । यस्याङ्कस्य कृतिहरभक्का सती शुष्यति निःशेषा भवति, अपच सोऽप्यो द्वाभ्यां रूपपदेन गुणितो हरभक्तःसन् शुष्यति तदा तेनाङ्केन हतोऽन्यवर्णस्तेन रूपेणान्वितः कल्प्यः | यदि तु रूपाणां पदं न तदा तेषु हस्तष्टेषु रूपेषु तावद्धरं क्षिपेद् यावर्गो भवेत् तन्मूलं रूपपदं भवेत् । एवमपि कृते चेदर्गः कदाचिन्न भवेत्तदा तदुदाहरणं खिलं स्यात् । तुपक्षस्य मूलं 'हित्वा क्षिप्त्वा -' इत्यादिना