पृष्ठम्:बीजगणितम्.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णमध्यमाहरणम् । एवं सहस्रधा गूढा मूढानां कल्पना यतः | क्रियया कल्पनोपायस्तदर्थमथ कथ्यते ॥ ७० ॥ सूत्रम्- ५०७ सरूपमव्यक्तमरूपकं वा वियोगमूलं प्रथमं प्रकल्प्य । योगान्तरक्षेपकभाजिताय दर्गान्तरक्षेपकतः पदं स्यात् ॥ ८० ॥ तेनाधिकं तत्तु वियोगमूलं स्याद्योगमूलं तु तयोस्त वर्गों । स्वक्षेपकोनो हि वियोगयोगो स्यातां ततः संक्रमणेन राशी ॥ ८१ ॥ अथ मन्दोधार्थ राशिकल्पनोपाय आवश्यक आस्ते तत्र तत्प्रति- पादकं सूत्रमेव यदि पठ्यते तर्हि कावेतौ राशी इति यदर्थमदः सूत्रं महत्तमिति कस्यचिदनवबोधो भवेत्तन्निरासार्थमादावनुष्टुभा प्रति- जानीते एवमिति । यथेह चतुर्था राशिकल्पना कृता एवं राशिक- ल्पना सहस्रधास्ति ता यतो मूढानां गूढाऽतस्तदर्थ मन्दार्थ क्रियया कल्पनोपायः कथ्यते । अथ प्रतिज्ञातमुपायमुपजातिकाभ्यामाह-~ सरूपेति । प्रथमं सरूपमरूपकं वा अव्यक्तं वियोगमूलं प्रकल्प्य पुनर्व- गन्तिरक्षेपात योगान्तरक्षेपकभाजितायल्लब्धं तस्य यत्पदं तेनाधिकं सहितं वियोगमूलं योगमूलं स्यात् । ततस्तयोर्योग वियोगमूलयोग १ ' तेषामथ च ' इति मूल पुस्तकस्थः पाठः