पृष्ठम्:बीजगणितम्.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- शेषं ततः क्षेपकमुक्कवच मूले विदसध्यादकृत्समत्वे ॥ ७७ ॥ सभाविते वर्णकृती तु यत्र तन्मूलमादाय च शेषकस्य । इष्टोद्धतस्येष्टविवर्जितस्य दलेन तुल्यं हि तदेवकार्यम् ॥ ७८ || यत्र प्रथमपक्षमूले गृहीते द्वितीयपक्षे वर्णयोः कृती सरूपे अरूपे वां भवतस्तत्रैकां वर्णकृतिं प्रकृतिं प्रकल्प्य शेष क्षेपः ततः ' इष्ट ह्रस्वं तस्य वर्गः प्रकृत्या क्षुण्णः-' इत्यादिकरणेन क्षेपजातीयं वर्णमेकादिहतं युतं वा स्वबुद्धया कनिष्ठपदं प्रकल्प्य ज्येष्ठं साध्यम् । अथ वर्गगता चेत्प्रकृतिः 'इष्टभक्को द्विधा क्षेपः- ' इत्यादिना मूले साध्ये | यत्र भावितं वर्तते तत्र 'सभा- विते वर्णकृती-' इत्यादिना तदन्तर्वर्तिनो यावतो मूलमस्ति तावतो मूलं ग्राह्यं शेषस्येष्टोद्धतस्येष्टविव- जितस्य दलेन सम तदेव मूलं कार्यम् । यत्र तु दित्र्या- दयो वर्णवर्गद्या भवन्ति तत्र द्वाविष्टौ वर्षो मुक्त्वा- १ सव्याख्योऽयं श्लोंको बहुषु मूल पुस्तके विवोपलभ्यतेऽत एव मयापि प्राचीनपु- स्तकानुराधादत्रैवोपन्यस्तः, टीकापुस्तके तु 'ययोर्वर्ग युतिर्घातयुंता-' इति स्वोदाहृतेः प्राग्छ- श्यते युक्तश्च तत्रत्यन्यास एवास्य, किंच मूलपुस्तके :" सभावित वर्णकृती तु यत्र-इत्ये- तद्विषयीभूतमुदाहरणम्-ययोर्वर्ग युतिः - " इति लेखोपलब्धिस्तत्प्राङ्न्याते प्रमाणमिति विभावयन्तु विवेकिनः ||