पृष्ठम्:बीजगणितम्.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते --- व्यथाने कवर्णमध्यमाहरणभेदाः । तत्र श्लोकोत्तरार्धादारभ्य सूत्र सार्ववृत्तत्रयम्-- वर्गाद्यं चेतुल्यशुद्धी कृतायां पक्षस्यैकस्पोक्लवद्वर्गमूलम् ॥ ६८ ॥ वर्गप्रकृत्या परपक्षमूलं तयोः समकारविधिः पुनश्च | वर्गप्रकृत्या विषयो न चेत्स्या- तदान्यवर्णस्य कृतेः समं तम् ।। ६६ ।। कृत्वा परं पक्षमथान्यमानं कृतिप्रकृत्याद्यमितिस्तथा च । वर्गप्रकृत्या विषयो यथा स्या- तथा सुधीभिर्बहुधा विचिन्त्यम् ॥ ७० ॥ बीजं मतिर्विविधवर्णसहायनीह मन्दावबोधविधये विबुधैर्निजाद्यैः । विस्तारिता गणकतामरस शुमद्भि- र्या सैव बीजगणिताहयतामुपेता ॥ ७१ ॥ यत्र पक्षयोः समशोधने कृते सत्यव्यक्तवर्गादिकम- वशेषं भवति तंत्र पूर्ववत् 'पक्षौ तदेष्टेन निहत्य इत्या- दिना एकस्य पक्षस्य मूलं ग्राह्यम्, अन्यपक्षे यद्यव्यक्त. वर्गः सरूको वर्तते तदा तस्य पक्षस्य वर्गप्रकृत्या मूले ४५८ " 19