पृष्ठम्:बीजगणितम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकबसमीकरणम् । अतोन्यथा यतितव्यम् - अत्र स्वस्वभागहारा- न्यूने शेषे यथा भवतो यथा च खिलं न स्यात् शेषयोगं विभज्य क्रिया कार्या । तथा कल्पिते शेषे ४० । ६० राशिः या १ एष त्रयोविंशतिगुणः पष्टिहृतः फलं कालकस्तगुणं हरं शेषयुतमस्य या २३ समं कृत्वा लब्धं यावत्तावन्मानम् का ६० रू ४०/ -एवमन्यत् नी ८० रू ६० या २३ -अनयोः या २३ समीकरणे कुट्टकेन लब्धे कालकनीलकमाने पी ४ रू ३ का पी ३ रू २नी आभ्यामुत्थापने यावचावन्मानं भिन्नं स्यादिति कुट्टकेनाभिन्नं जातम् लो २४० रू २० । अथवा शेषे ३० | ७० आभ्यां राशि: लो २४० रू ६० । अथान्यदुदाहरणमनुष्टुभाह -क इति । को राशिस्त्रयोविंशत्या क्षुण्णः पृथक् षष्ट्या अशीत्या च हृतः, यदत्रयोरेक्यं शत शतप्रमाणं दृष्टं हे कुट्टकज्ञ, तं राशियाशु वद || रोकार सूत्रमनुष्टुभा अत्रेति । अत्र भाज्यस्थस्य एकाधिकवस्थ एको यो धिक्रवर्ण: कुडकोपक्रादि- तिरिक्तस्तस्य भागलब्धस्य भागे हृते लब्धस्य मितिरीप्सितामिमता नो कल्प्या न कार्या । नन्वत्र तथाकल्पने को दोष इत्यत आह क्रिया व्यभिचरेत्तथेति । तथा कल्पने सति किया व्यभिचरेत् .