पृष्ठम्:बीजगणितम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - 'अन्त्योन्मतौ कुट्ट विधेर्गुणासी - इति कुट्टककर- ऐन लब्धो गुणक: सक्षेपः लो४ रू० एतत्पीतकमा- नम् । लब्धिः लो ३१ रू० एतन्त्रीलकमानम् | कालको न्मानेन नीलकपीत कौ स्वस्वमानेनोत्थाप्य स्वच्छेदेन विभज्य लब्धं कालकमानम् लो ७६ रू० । अथ यावसावन्माने कालकादीन स्वमानेनोत्थाप्य स्वच्छे- देन विभज्य लब्धं यावत्तावन्मानम् लो ८५ रू० लोहिते रूपेणेष्टेनोत्थापिते जातानि यावत्तावदादीनां परिमाणानि ८५/७६|३१||४|| द्विकेनेष्टेन १७० | १५२१ ६२/८ | त्रिकेण २५५१२२८ | ६३ | १२ | एवमिवशा- दानन्त्यम् || ३८० अथोदाहरणान्तरं शार्दूलविक्रीडितेनाह ---अश्वाइति । येषा चतुर्णा बणिजां धनानि वस्तुमूल्यरूपाण्येवंविधानि सन्ति । घटका: पञ्चाङ्गमङ्गलमिताः, तत्रैवं विभागः - एकस्य पञ्च, द्वितीयस्य त्रयः, तृतीयस्य षट्, चतुर्थस्य मङ्गलान्यष्टौ । उष्टा द्विमुनिश्रुतिक्षितिमिताः, तत्रैवं विभाग:- एकरूप हौ, द्विती- ग्रस्य सत, तृतीयस्य चत्वारः, चतुर्थस्य एकः । तेषामश्वतरा अष्ट- द्विभूपावकाः, तत्रैवं विभाग:- एकस्याट, द्वितीयस्य द्वौ, तृतीय- स्यैक, चतुर्थस्य त्रयः । वृषा सुनिमहीनेन्दुसंख्याः, तत्राप्येवं विभाग:- एकस्य सत, द्वितीयस्यैक, तृतीयस्य हौ, चतुर्थस्यैकः | ते सर्वे तुल्यनाः सपदि द्रुतमरवादीनां मूल्यानि मे वद |