पृष्ठम्:बीजगणितम्.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- त्तावत्कालकनीलक पीतकलोहितकहरितकश्वेतक चित्रककपिल कपिङ्गलक धूम्रकपाटल कशबलकश्याम- लकमेचकेत्यादि । अथवा कादीन्यक्षराण्यव्यक्तानां संज्ञा असंकरा कल्प्याः । अतः प्राग्वदेशकाला- पवद्विधिं कुर्वता गणकेन पक्षौ समौ कार्यो, पक्षा वा समाः कार्याः । ततः सूत्रावतारोऽयम तयोः समयो- रेकस्मात्यक्षांदितरपक्षस्याद्यं वर्ण शोधयेत्तदन्यव पनि रूपाणि चेतरस्मात्पक्षाच्छोघयेत आद्यवर्ण- शेषेणेत्तरपक्षे भक्ते भाजकवर्णोन्मितिः । बहुषु पक्षेषु ययोर्ययोः साम्यमस्ति तयोरेवं कृते सत्यन्या उन्मितयः स्युस्ततस्ता सून्मितिषु एकवणन्मितयो यद्यनेकथा भवन्ति ततस्तासां मध्ये द्वयोर्दयोः समी- कृत वेदगमेन ' आद्यं वर्ष शोधयेत्' इत्यादिना- न्त्यवर्णोन्मितयः स्युः । एवं यावत् तावत्संभवः | ततोऽन्त्योन्मितो भाज्यवर्णे योऽङ्कः स भाज्यराशिः, यो भाजके स भाजक, रूपाणि क्षेप अतः कुट्ट- विधिना यो गुण उत्पद्यते तद्भाज्यवर्णमानं या लब्धिस्तद्भाजकवर्णमानं, तयोर्मानयोर्हदभाजकमा- ज्याविष्टेन वर्णेन गुणितौ क्षेपको कल्प्यो, ततः स्वस्व- मानेन सक्षेपेण पूर्ववर्णोन्मितों वर्षावुत्थाप्य स्वच्चे-