पृष्ठम्:बीजगणितम्.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J Fu एकवर्णमध्यमाहरणम् । अनेकवर्णसमीकरणम | . तत्र सूत्रं सार्धवृत्तत्रयम् वर्ण शोधयेदन्यपक्षा- दन्यात् रूपाण्यन्यतश्चाद्यभक्के । पक्षेऽन्यस्मिन्नाद्यवर्णोन्मितिः स्या- दर्णस्यैकस्योन्मितीनां बहुवे || ६८ ॥ समीकृतच्छेदगमे तु ताभ्य स्तदन्यवर्णोन्मितयः प्रसाध्याः । [अन्त्योन्मतौ कुट्टविधेर्गुणाती •ते भाज्यतद्वाजकवर्णमाने ॥ ६६ ॥ अन्येऽपि भाज्ये यदि सन्ति वर्षा- स्तन्मानमिष्टं परिकल्प्य साध्ये | विलोमकोत्थापन तोऽन्यवर्ण- मानानि भिन्नं यदि मानमेवम् ॥ ७० ॥ भूयः कार्यः कुट्टकोऽत्रान्त्यवर्णं तेनोत्थाप्योत्थापयेव्यस्तमाद्यान् । इदमनेकवर्णसमीकरणं बीजम् । यत्रोदाहरणे द्वि- त्र्यादयोऽव्यक्तराशयो भवन्ति तेषां यावत्तावदादयो वर्षा मानेषु कल्प्याः । तेऽत्र पूर्वाचायें: कल्पिता याव-