पृष्ठम्:बीजगणितम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीजगणिते- तत्रैव युक्त गुणनेन जातो विकारको नैव युतेर्वियोगात् । यतः समच्छेदतया वियोग-- योगाङ्गता तद्गुणनस्य सिद्धा ॥ ६ ॥ विकारेऽपि नानन्तलब्धेर्विकारो यतस्तुल्यलब्धं द्वयोर्नाधिकोनम् । यतरचोदयेऽनेक राशित्रयज्या- वशाच्छ्रन्यहारप्रभेदेऽपि भैक्यम् ॥ ७ ॥ एवं पितृव्याः प्रवदन्ति बीज- नवाङ्कुरे ते खहराः समानाः । फलेन सिद्धान्तजवासनाभि- युक्ता यतस्तत्खलु युक्तियुक्तम् ॥ ८ ॥ एवं त्वमिन्नत्रयमौर्षिकोत्था . अकशकुप्रविकाल्मिलेन । तत्रोदयास्ते खहराः प्रभिन्ना- स्तल्लब्धिसाम्यं गणकैरमान्यम् ॥ ९ ॥ शङ्कुप्रभेदोद्भवभाः प्रभिन्नाः सिद्धान्तयुक्त्या कथमन्यथा भाः । • तद्भिन्नकालेऽपि समाः कुतो न त्वन्ते खहारास्तु फलैर्न तुल्याः ॥ १० ॥ तस्मात्फलोनाधिकशून्यहारे- ब्वानन्त्यरूपेण फलप्रसाम्यम् 1 युक्तं समाभाति सुवासना संख्यागतं नैव फलं यतोत्र ॥ ११ ॥ १ नवाङ्करकाराः कृष्णदेवज्ञाः ।.