पृष्ठम्:बीजगणितम्.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णमध्यमाहरणम् | पक्षे मूलदे इतरपक्षेणार्थान्मूलदेन भवितव्यम्, यतः समौ पक्षौ । समयोः समयोगादौ समतैवेत्यतस्तरप- दयोः पुनः समीकरणेनाव्यक्वस्य मानं स्यात् । अथ यद्येवं कृते घनवर्गवर्गादिषु सत्सु कथंचिदव्यकपक्ष- मूलाभावात्क्रिया न निर्वहति तदा बुद्धथैवाव्यक्क्रमानं ज्ञेयम् । यतो बुद्धिरेव पारमार्थिकं बीजम् । अथ यद्य- व्यक्लपक्षमूले यानि ऋणरूपाणि तेभ्योऽल्पानि व्यक्लपक्षमूलरूपाणि स्युस्तदा तानि धनगतानि कृत्वाऽव्यक्तमितिः साध्या सा चैव द्विधा भवति । उदाहरणम्- अलिकुलदलमूलं मालती यातमष्टो निखिलनवभागाश्चालिनी भृङ्गमेकम् | निशि परिमललुब्धं पद्ममध्ये निरुद्धं प्रति रणति रणन्तं ब्रूहिकान्ते लिसंख्याम६२ अत्रालिकुलप्रमाणं याव २ एतदर्धमूलं याव १ निखिलनवमभागा अष्टौ याव मूलभागैक्यं ह ष्टालियुगलयुतं राशिसममिति पक्षौ समच्छेदीकृत्य छेदगमे न्यासः | याव १८ या० रू याव १६ या० रू १८