पृष्ठम्:बीजगणितम्.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० बीजगणिते- पूर्वाव्यक्कस्य कृतेः समरूपाणि क्षिपेत्तयोरेव ॥ , 4 मूलानयनाथ 'पक्षौ तदेष्टेन निहत्य किंचित्क्षेप्यं तयोः इत्युक्तं तत्र केन पक्षौ गुणनीयौ किंवा तयोः क्षेप्यमिति बाला- वबोधार्थ श्रीधराचार्यकृतं सूत्रमवतारयति चतुराहतवर्गसमैरिति । चतुर्गुणितेनाव्यक्तवर्गाङ्केन पक्षद्वयं गुणयेत् गुणनात्माग्योऽव्यक्का- अस्तर्गतुल्यानि रूपाणि पक्षयोः क्षिपेत् । एवं कृतेऽवश्यमव्यक्तप- क्षस्य मूलं लभ्यते द्वितीय पक्षस्याप्येतत्समत्वान्मूलेन भाव्यम् । एवं सति व्यक्तपक्षस्य यदि मूलं न लभ्यते तदा तत्खिलमेवेत्यर्थात्सि- द्धम् । अत्र श्रीधराचार्यसूत्रे मूलोपायस्याव्यक्तवर्गाव्यिक्तसापेक्षतयो- क्लत्वाद्यत्रै कस्मिन्पक्षेऽव्यक्तवर्गोऽव्यक्तं च भवेत्तत्रैवास्य मवृत्तिरन्यत्र तु पदोपाय: सुधिया स्वधियावधेयः । पक्षद्वयस्य वर्गीकरणमन्तरापि सिद्धमुलानयनप्रकारः सिद्धान्त- सुन्दरकर्तृज्ञानराजदैवज्ञ तनूजेन सूर्येण बीजभाष्ये प्रदर्शितःस यथा- अव्यक्तव द्विगुणो विधेय- श्याव्यक्कमेवं परिकल्प्य रूपम् । वर्णाहतोऽन्योद्विगुणश्च रूप- वर्गान्वितस्तत्पदमन्यमूलम् ॥ यथा पक्षी - याव २ या है रू० याव : या० रू १८ अव्यवङ्क: २, द्विगुणः ४, अयं मूलेऽव्यक्तः या ४ । अव्यक्तं ६ रूपाणि तेन प्रथमपक्षमूलम् या ४ रूह | अव्यक्लपक्षः