पृष्ठम्:बीजगणितम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - रातो पक्षौ समच्छेदी कृत्य छेदगमे समीकरणेन लव्धं यावत्तावन्मान २०० अनोत्थापितानि जा तानि रत्नमूल्यानि २५ |२०|२ समधन २०० । एवं कर्णभूषणे रत्न मूल्यम् ६०० अत्र समच्छेदीकृत्य शोधनार्थमाद्यपक्षेण परपक्षे क्रियमाणे छेदांश विपर्यासे कृते परस्य वेदो गुणों ऽशो हरश्चेति तुल्यत्वात्तयोर्नाशो भविष्यतीति छेदगमः क्रियते || अथ छात्रमतित्रैशद्यार्थे विचित्रोदाहरणं शार्दूलविक्रीडितेनाह-माणि- क्याष्टकमिति । हे कल्याणिनि कल्याणविशिष्ठे, त्वं चेदिह अव्यक्तगणिते कल्या चतुरासि, अत्र केचित् 'कल्या' इत्यस्य स्थाने 'कल्पा' इति पव- गदिमवर्णावसानकं पाठ कल्पयन्ति तन्त्र सुष्टु बहुटीकाकारोक्लिविसंवादात् । तर्हि तेषां रत्नानां मध्ये एकैकस्य रत्नस्य मूल्यं पृथभिन्नं ब्रूहि आख्याहि । यत् रत्नत्रयं ते तत्र कर्णविभूत्रसे कर्णयोरलंकारे माणिक्यानामष्टकमिन्द्रनी- लानां दशकं मुक्ताफलानां शतं वर्तते । किं लक्षणम् | त्वदर्थे समधनं समान- मूल्यं मया क्रीतं, मूल्यदानपुरस्सरं गृहीतमित्यर्थः । ' समधनम्' इत्यस्याय- मभिप्रायः–यन्माणिक्याष्टकस्य मूल्यं तदेवेन्द्रनीलदशकस्य तदेव मुक्काफल- शतस्येत्यर्थः । हे प्रिये, तेषां रत्नानां यत्त्रयं तस्य यानि मूल्यानि तेषां युतिः ब्यूनं शतार्धं वर्तते । उदाहरण-- किसीने समान मोल से आ माणिक्य, दश नीलम और सौ मोती खरीदे और उन तीनों रत्नों के मोल का योग सैंतालीस हैं तो कहो हर एक रनों का मोल क्या होगा |