पृष्ठम्:बीजगणितम्.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ बीजगणित- , पूर्व ' तो बीजं वक्ष्यामि " इति कथयद्भिराचार्येबजक्रिया- निरूपणं प्रतिज्ञातम्, अतस्तन्त्रिरूपरणीयम् तस्य चातुर्विध्यमास्त इत्याचार्या: सिद्धान्तयन्ति । तथाहि प्रथममेकवर्ण समीकरणम्, द्वितीय मनेकवर्णसमीकरणम्, तृतीयं मध्यमाहरणम्, चतुर्थ भा वितामेति । तत्र समशोधनादिक्रियाकलापेनाज्ञातराशिमानात्रग- माय यत्रैकं वर्णमधिकृत्य पक्षयोः समता निष्पाद्यते तत् ' एकवर्ण- समीकरणम्' इति कथ्यते । यत्रानेकान्वर्णानधिकृत्य पक्षयोः स मता निष्पाद्यते तत् 'अम् इति कथ्यते । यत्र वर्णवर्गादिकमधिकृत्य पक्षयोः साम्यं विधाय मूलग्रहण पुरस्सरं व्यक्तमानमानीयते तत् 'मध्यमाहरणम्' इति कथ्यते, यतोऽत्र व- गत्मिकराशेः पदग्रहणे प्रायो मध्यमखण्डस्याहरणं दूरीकरणं भ वति । यत्र भावितस्याधिकृत्य पक्षयोः समता निष्पाद्यते तत् भावितम्' इति व्यपदिश्यते । यद्यग्यत्रैकवसमीकरणस्य ल क्षणं मध्यमाहरणविशेषे समीकरणस्य लक्षणं मध्यमा हरणविशेष भाविते चातिव्यातं तथापि गौतमकणभक्षपक्षकक्षा- बगाहिनामिवास्माकं लक्षणक्षोदे न ग्रहातिशयः । अस्ति चेदा कराताम्-यत्रैकमेव वर्णमधिकृत्य पक्षयोः समीकरणेन वि नैव मूलग्रहणादव्य मानं सिध्यति तदेकवर्णसमीकरणम् । एव मनेकवर्ण समीकरणस्यापि लक्षणमत्रसेयम् । एवं नातिव्यातिः | " प्रथममेकवर्णसमीकरणं बीजम् । द्वितीयमनेकवर्णसमीकरणां वीजम्' इति मथमद्वितीय शब्दोपादानपुरस्सरं विभागप्रदर्शनाद् बीजद्वैविध्यमेव श्रीभास्कराचार्यारणामभिमतम्, इति केचित् ।। 'एक- वर्णसपीकरणम्, अनेकवर्णसमीकरणम्' इति मुख्य विभागद्यम् । तत्राद्यं द्विविधम् --एकवर्णसमीकरणं, मध्यमाहरणं चेति । द्वितीयं त्रिविधम् अनेकवर्णसमीकरणम्, तन्मध्यमारणं, भावितं चेत्येत्र 4 १