पृष्ठम्:बीजगणितम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णसमीकरणम् । २२३ दिकं गणकेन कार्यम् । तथा कुर्वता दो पक्षौ प्रयत्नेन समौ कार्यो । यद्यालापे पक्षौ समौ न स्तस्तदैकतरे न्यूने पक्षे किंचित्प्रक्षिप्य ततस्त्यक्त्वा वा केनचित्सं- गुण्य भक्त्वा वा समौ कार्यों । ततस्तयोरेकस्य पक्षस्याव्यक्तमन्यपक्षस्याव्यक्ताच्चोग्यम, अव्यक्तवर्गा- दिकमपि । अन्यपक्षरूपाणीतरपक्षरूपेभ्यः शोध्यानि | यदि करण्यः सन्ति तदोक्कप्रकारेण शोध्याः । ततो- व्यक्तराशिशेषेण रूपशेषे भक्ते यल्लभ्यते तदेकस्या- व्यक्तस्य माने व्यक्तं जायते । तेन कल्पितोऽव्यक्करा- शिरुत्थाप्यः || यत्रोदाहरणे यादयोऽव्यक्तराशयो भवन्ति तदा तस्यैकं यावत्तावत्प्रकल्प्य, अन्येषां दयादिभिरिष्टैर्गुणि • तं भक्तं वा इष्टै रूपैरूनं युक्तं वा यावत्तावदेव प्रकल्प्यम् || एकस्य यावत्तावदन्येषां व्यक्तान्येव मा → नानि कल्पानि । एवं विदित्वेति यथा किया निर्वहति तथा बुद्धिमता ज्ञात्वा शेषाणामव्यक्तानि व्यक्वानि वा मानानि कल्प्यानीत्यर्थः ॥ विभ्राणा करयोः सलीलमुभयोवरणां तथा पुस्तकं पश्यन्ती प्रणतान्कृपामसृणया दृष्ट्या सरोजे स्थिता । राकाकैरवबन्धुवन्धुरमुखी बन्धूकवर्णाधरा सान्दानन्दसुधासमुद्रलहरी सा शारदा शास्तु माम् ॥ १ ॥