पृष्ठम्:बीजगणितम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- यावत्तावत्कल्प्यमव्यक्कराशे- मनं तस्मिन्कुर्वतोद्दिष्टमेव । तुल्यौ पक्षौ साधनीयौ प्रयत्ना- त्यक्त्ता क्षिप्त्वा वापि संगुराय भक्ता ॥ ५६ ॥ एकाव्यक्तं शोधयेदन्यपक्षा- पाण्यन्यस्येतरस्माच पक्षात् । शेषाव्यक्तेनोद्धरेद्रपशेषं व्यक्तं मानं जायतेऽव्यक्तराशेः ॥ ५७ ॥ अव्यक्तानां ड्यादिकानामपीह यावत्तावद्धयादिनिघ्नं हृतं वा युक्तोनं वा कल्पयेदात्मबुद्धया मानं कापि व्यक्क्रमेवं विदित्वा ॥ ५८ ॥ प्रथममेव कर्णसमीकरणं बीजम् । द्वितीयमनेकवर्ण- समीकरणं बीजम् । यत्र वर्णस्य दयोबहूनां वा वर्गा- दिगतानां समीकरणं तन्मध्यमाहरणम् । यत्र भावि तस्य समीकरणं तद्भावितम् इति वीजचतुष्टयं व दन्त्याचार्याः । तत्र प्रथमं तावदुच्यते - प्रच्छकेन पृष्ठे सत्युदाहरणे योऽव्यक्तराशिस्तस्य मानं यावत्तावदेकं दयादि वा प्रकल्प्य तस्मिन्नव्यकराशौ उद्देशकालाप - वत्सर्वं गुणनभजनत्रैराशिकपञ्चराशिकश्रेणीक्षेत्रा- २२२