पृष्ठम्:बीजगणितम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनषड्डिधम् | वर्गादौ करणसूत्रं वृत्तार्धम् - कृतिः स्वर्णयोः स्वं स्वमूले धन न मूलं क्षयस्यास्ति तस्याकृतित्वात् ॥ ४ ॥ उदाहरणम्- धनस्य रूपत्रितयस्य वर्ग क्षयस्य च ब्रूहि सखे ममाशु ॥ न्यासः ॥ रू ३ रू ३ । जातौ वर्गो रू ६ रु ६ । उदाहरणम्- धनात्मकानामधनात्मकानां • मूलं नवानां च पृथग्वदाशु ॥ ४ ॥ न्यासः । रू ६ । मूलम् ३ वा ३ | न्यासः । रू ६ । एषामवर्गत्वान्मूलं नास्ति । इति धनर्णवर्गमूले । इति धनर्णषड्डिधम् अथ वर्ग तन्मूलं च भुजंगप्रयातोत्तरार्धेनाह-कृतिरिति । स्वस्य धनस्य ऋणस्य च वा वर्ग: स्वं स्यात् । अथ भूलमाह - स्वमूले धन इति । स्वस्य धनस्य मूले धन भवतः | धनस्यैव वर्गस्य मूलमृणमपि भवतीति भावः । अथात्र विशेषमाह-न मूलं क्षयस्या- स्तीति । अत्र हेतुं प्रदर्शयति-तस्याकृतित्वादिति । वर्गस्य मूलं लभ्यते । ऋणास्तु न वर्गः कथमतस्तस्य मूलं स्यात् ॥ ४ ॥ इति द्विवेदोपाख्याचार्य श्री सरयूप्रसाद सुत-दुर्गाप्रसाद लीला- वतीहृदयग्राहिणि बीजविलासिनि धनरर्णपडिध विवरण समाप्तम् ||