पृष्ठम्:बीजगणितम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रवालम् | स्यान्मूलदा यदि कृतिप्रकृतिर्नितान्तं त्वचेतसि प्रवद तात तता लतावत् || २६ || अथात्रोदाहरणं सिंहोद्धतयाह- केति । हेतात ! तातेति सरसो- किस्तु कमपि नितान्तानुकम्पास्पदं प्रकृतिसुकुमारं कुमारं व्यञ्जयति । त्वचेतसि तव हृदये यदि कृतिप्रकृतिर्वर्गप्रकृतिः लतावत् लता अल्ली, तद्वदिव | नितान्तमत्यर्थ तता विस्तृतास्ति । एकत्र व्युत्पत्ति- रूपेणापरत्र पत्रादिरूपेणेति तात्पर्यम् | यथा कुत्रचिदारामे सेच- नादिक्रिया कौशलक्शेन लता नितान्तं वितता भवति तथा तव हृदि यदि दाभ्यासवशेन वर्गप्रकृतिर्जागरूका वर्तते इति भावः । अत्र लतेत्युपमानमहिम्ना वर्गप्रकृतेरुच्चावचवासनापरिस्कारपुरस्सरं पकारभिदाप्यवसीयते । अत्रानुस उपमा च शब्दार्थालंकारौ । नई का कृतिः सप्तषष्टिगुणिता एकयुक्ता मूलदा स्यादिति प्रवद विविच्य कथय । का च कृतिः एकषष्टिनिहता एकयुक्ता सती मूलदा स्यादिति हे सखे वदेति । उदाहरण--- ( १ ) वह कौनसा वर्ग है जिसको सतसठसे गुणकर एक जोड़ देते हैं तो वर्ग होता है । ( २ ) वह कौन वर्ग है जिसे एकसठ से गुणकर एक जोड़ देते है तो वर्ग होता है । प्रथमोदाहरणे रूपं कनिष्ठं त्रयमृणक्षेपं च प्रकल्प्य प्र. ६७ । क्षे. १ । न्यासः । क १ ज्ये ८ क्षे ३ | ह्रस्वं भाज्यं, ज्येष्ठं प्रक्षेपं, क्षेपं भाजक च प्रकल्प्य कुट्टकार्थं न्यासः । भा. १ । क्षे. ८ | हा. ३।