पृष्ठम्:बीजगणितम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रवालम् | अथ चक्रवाले करणसूत्रं वृत्तचतुष्टयम्- इस्वज्येष्ठपदक्षेपान्भाज्यप्रक्षेपभाजकान् ॥ ४६ || कृत्वा कल्प्यो गुणस्तत्र तथा प्रकृतितश्च्युते । गुणवर्गे प्रकृत्योनेऽथवाल्पं शेषकं यथा ॥ ४७ ॥ तत्तु क्षेपहृतं क्षेपो व्यस्तः प्रकृतितश्च्युते । गुणलब्धिः पदं इस्वं ततो ज्येष्ठमतोऽसकृत् ॥४८॥ त्यक्त्ता पूर्वपदक्षेपांश्चक्रालमिदं जगुः | चतुद्धचेंकयुतावेवमभिन्ने भवतः पदे ॥ ४६ ॥ चतुर्द्विक्षेपमूलाभ्यां रूपक्षेपार्थभावनां ॥ अकनिष्ठज्येष्ठयोरभितार्थ चक्रवाताख्यां वर्गप्रकृतिमनु- टुभां चतुष्टयेनाह-हस्वेति । प्रथमतः इष्टं स्वं तस्य वर्गः । इत्यादिना इस्वज्येष्ठक्षेपान् कृत्वा कुट्टकेन तथा गुण: साध्यः यथा गुणस्य वर्गे प्रकृतितरच्युते मकृत्या ऊने वा शेषकल्पर्क स्यात् । तत्तु शेषं पूर्वक्षेपहृतं सत् क्षेप: स्यात् । गुणवर्गे प्रकृतित- अच्युते सति अयं क्षेपो व्यस्तः स्यात् । धनं चेहणमृणं चेद्धनं भवेदित्यर्थ: । यस्य गुणस्य वर्गेण प्रकृत्या सहान्तरं कृतं तस्य गुणस्य या लब्धिस्तत्कनिष्ठपदं स्यात् । ततः कनिष्ठाज्ज्येष्ठं १ अवविशेष:------ निरत्रमूलं प्रकृतेहिं लब्धिस्तावच शेषं च हरस्तदत्रम् | मूलाढ्यशेषं हि निरग्रमासं हरेण नूलं फलमेतदस्तः || छिच्छेषहीनो नवशेषकं स्यात्तद्वर्गहीना प्रकृतिर्हराता | नवो हरः स्यादसकृद्विधेयमित्थं यदा रूपमितो हरः स्यात् || तदा लब्धितः क्षेपके रूपतुल्ये गुणामी प्रसाध्ये विदा कुट्टकेन । गुण: स्यात्कनिष्टं तथा ज्येष्ठमाप्तिर्गवेक्षेपके रुपतुल्ले तदैव ||