पृष्ठम्:बीजगणितम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - अथ वर्गप्रकृतिः । तंत्र रूपक्षेपपदार्थं तावत्करणसूत्राणि- इष्टं इस्वं तस्य वर्गः प्रकृत्या क्षुष्यो युक्तो वर्जितो वा स येन । मूलं दद्यात्क्षेपकं तं धन मूलं तच ज्येष्ठमूलं वदन्ति ॥ ४० ॥ एवमनेकवर्णमक्रियोपयुक्त कुकमभिधाय सांप्रतमनेकवर्ण- मध्यमाहरणोपयुक्तां वर्गमकृति निरूपयति-तत्र प्रथमं तत्स्वरूपं शालिन्याह-इष्टमिति । अनेकवर्णमध्यमाहरणे पक्षयोः समीकर- ●णानन्तरम् एकपक्षस्य मूले गृहीते सति द्वितीयपक्षे यदि सरूपो- अव्यक्तवर्गः स्यात् यथा - फाव १२ रू १ । तत्र पूर्वपक्षतुल्यतया द्वि- तीयपक्षणापि पुलदेन भाग्यम् । अस्ति चात्र कालकवर्गो रविगुणो रूपसहितश्च । तो यस्य वर्गो रविगुणो रूपसहितः सन् वर्गो भवेत्तदेव कालकमानमित्यर्थात्सिध्यति । यच्चात्र पदं तत्पूर्वपक्षपद- समम् उभयपक्षयोः समत्वात् । वर्ग: मंकृतिर्यत्रेति वर्गप्रकृतिः । प्रथममिष्टं हस्वपदं प्रकल्प्य तस्य वर्गः प्रकृत्या गुणितो येनाङ्केन सहितो रहितो वा मूलं दद्यात्तमङ्गं धनमृणं वा क्षेपकं वदन्त्या- चार्या: । सन्मूलं ज्येष्ठमूलमिति वदन्त्याचार्याः | प्रथमतो यदिष्टं पदं प्रकल्पितं तब इस्वमिति वदन्त्याचार्याः । अन्वर्थाश्चैताः संज्ञाः । यत्र तु क्षेपवियोगात्कुत्रचिज्ज्येष्ठपदं इस्वपदादल्पं भवति तत्रापि भावनया हस्वपदादधिकमेव भवति ।। वर्मप्रकृति- इस भांति [अनेक वर्ण की प्रक्रिया के उपयोगी कुहक को कहकर