पृष्ठम्:बीजगणितम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - एवं तदूर्ध्वं च तथाघिमासा- वमाग्रकाभ्यां दिवसा रवीन्दोः ॥ ३८ ॥ ग्रहस्य विकलावशेषाद्ग्रहाहर्गणयोरानयनम् | त द्यथा-तत्र षष्टिर्भाज्यः । कुदिनानि हारः | विकलाव- शेषं शुद्धिरिति प्रकल्प्य साध्ये गुणाप्ती । तत्र लब्धि- विकलाः स्युः । गुणस्तु कलावशेषम् | .एवं कलावशेषाल्लब्धिः कला गुणो भागशेषम् | तद्भागशेषं शुद्धिः । कुदिनानि हारः | त्रिंश- द्भाज्यः । तत्र लब्धिर्भागाः । गुणो राशिशेषम् । द्वादश भाज्यः । कुदिनानि हारः | राशिशेषं शुद्धिः । तत्र फलं राशयः । गुलो भगणशेषम् । भगणा भाज्य: । कुदिनानि हारः | भगणशेषं शुद्धि: । फलं गतभगणाः । गुणोऽहर्गणः स्यादिति ॥ दाहरणानि प्रश्नाध्याये । १५०

. एवं कल्पाधिमासा भाज्यः | रविदिनानि हारः | अधिशेषं शुद्धिः । लब्धिर्गताधिमासाः । गुणो गतरविदिवसाः । एवं कल्पावमानि भाज्यः । चान्द्रदिवसा हारः | शेषं शुद्धिः | फलं गतावमानि | गुणो गत- चान्द्रदिवसा इति ||