पृष्ठम्:बीजगणितम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - उक्लप्रकार से सिद्ध किये हुए लब्धि यदि विषम हो तो वहांपर क्या करना चाहिये सो कहते हैं-- pa उक्त प्रकार से किया तभी करना चाहिये यदि आई हुई लब्धियां सम अर्थात् दो चारदिक हों, यदि विषम अर्थात् एक तीन पांच सात आदिहों तो आयेर लब्धि गुण अपने अपने तक्षणसे ( दृढ भाज्य हार से ) घटाये हुए वास्तव लब्धि गुण होंगे | भवति कुट्टविधेयुतिभाज्ययोः समपवर्तितयोरपि वा गुणः । भवति यो युतिभाजकयोः पुनः सच भवेदपवर्तनसंगुणः ॥ ३१ ॥ अथ प्रकारान्तरेण गुणकमाह - भवतीति । युतिः क्षेपः । युति- भाज्ययोः समपवर्तितयोः सतोरपि 'मिथो भजेत्तौ दृढभाज्यहारौ' इति यथोक्काकविधेर्वा गुण: स्यात् । अपिः समुच्चये । वा प्रका- रान्तरे | क्षेपभाज्ययोरपवर्तन संभवेऽप्यपवर्तनमकृत्वापि गुणः सि ध्यति । यद्वा । तयोरपवर्तितयोः सतोरपि यथोक्ककुविधिना स एव गुणः स्यादित्यर्थः । तेन गुणेन भाज्यं संगुल्य क्षेपेण संयोज्य हारेण विभज्य लब्धिरत्रावगन्तव्या | भवति य इति । पुनर्विशेषे वाक्यालंकारे वा । युतिभाजकयोस्त्वपवर्तन संभवे सत्यपवर्तितयोः सतोयथोक्कविधिना यो गुणो भवेत् स च भवेत्, परमपवर्तन- संगुण: सन् | चकारादनपवर्तितयोरपि गुणसिद्धिर्भवति । यद्वा अपित्राशब्दसामर्थ्यादध्याहारेण योजना | सायथा - युतिभाज्ययोः समपवर्तितयोर्या लब्धिर्भवति, अपि वा युतिभाजकयोस्त्वपवर्ति- तयोर्यो गुणो भवति, सा लंब्धिः स च गुणोऽपवर्तन संगुण: सन् भवेत् । लिङ्गविपरिणामेन लब्धिरवर्तन संगुरणा सती भवेदिति ●