पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/9

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ८ )
बुद्धिबलयोः

पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः।
वानरेण हतोराजा विप्राश्चौरेण रक्षिताः ॥ ५ ॥

बुद्धि बलयोः
कथा ( ४ )

 १. कस्मिश्चिद्वने भासुरको नाम सिंहः प्रतिवसतिस्म । अथासौ वीर्यातिरेकात् नित्यमेव अनेकान् मृगशशकादीन् जन्तून् व्यापादयन् नोपरराम ।

 २. अथान्येद्युस्तद्वनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः, "स्वामिन् ! किमनेन सकलमृगवधेन ? नित्यमेव यतस्तव एकेनापि मृगेण तृप्तिर्भवति । तत् क्रियतामस्मभिः सह समयधर्म्मः ।

 ३. "अद्य प्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राणयात्रा, क्लेशं विनापि भविष्यति, अस्माकञ्च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोऽनुष्ठीयताम् ।

 लोकानुग्रहकर्तारः प्रवर्द्धन्ते नरेश्वराः ।
 लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः" ।

 ४. अथ तेषां तद्वचनमाकर्ण्य भासुरक आह, "अहो ! सत्यमभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति, तन्नूनं सर्वानपि भक्षयिष्यामि" ।