पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/10

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ९ )
नीति कथा माला ॥

 ५. अथ ते तथैव प्रतिज्ञाय निर्वृतिभाजः तत्रैव वने निर्भयाः पर्य्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति; वृद्धो वा, वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्नसमये उपतिष्ठते ।

 ६. अथ कदाचित् जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा, तस्य वधोपायं चिन्तयन्, वेलातिक्रमं कृत्वा, व्याकुलितहृदयो यावद् गच्छति, तावन् मार्गे गच्छता कूपः संदृष्टः । यावत् कूपोपरि याति, तावत् कूपमध्ये आत्मनः प्रतिबिम्बं ददर्श, दृष्टा च तेन हृदये चिचिन्ततं, यद्भव्य उपायोऽस्ति, अहं भासुरकं प्रकोप्य स्वबुद्ध्या अस्मिन् कूपे पातयिष्यामि ।

 ७. अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षामकण्ठः कोपाविष्टः सृक्कणी परिलेलिहत् व्यचिन्तयत् । "अहा ! प्रातराहाराय निःसत्त्वं वनं मया कर्त्तव्यम्" । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः ।

 ८. अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्नाह, "रे शशकाधम ! एकतस्तावत् त्वं लघुः प्राप्तोऽपरतश्च वेलातिक्रमेण तदस्मादपराधात् त्वां निपात्य, प्रातः सकलान्यपि मृगकुलानि उच्छेदयिष्यामि' ।

 ९. अथ शशकः सविनयं प्रोवाच 'स्वामिन् ! नापराधो मम न चापरेषां सत्त्वानाम्, तत् श्रूयतां कारणम् । सिंह आह,