पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/11

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १० )
बुद्धिवलयोः ॥

“सत्वरं निवेदय, यावत् मम दष्ट्रान्तर्गतो न भवान् भविष्यतीति” । शशक आह, “स्वामिन् ! समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेषितः ।

 १०. "ततश्च अहमागच्छन् अन्तराले महता केनचिदपरेण सिंहेन विवरान्निर्गत्य अभिहितः । ‘रे ! क्व प्रस्थिता यूयम् ? अभीष्टदेवतांस्मरत’ । ततोमयाभिहितम्, ‘वयं स्वामिनो भासुरकसिंहस्य सकाशे आहारार्थं समयधर्मेण गच्छामः’ । ततः तेनाभिहितम्, ‘यद्येवं तर्हि मदीयमेतद्वनं, मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्त्तितव्यम् । चौररूपी स भासुरकः । अथ यदि सोत्व राजा ततो विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ, येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा भविष्यति स सर्वानेतान् भक्षयिष्यतीति । ततोहं तेनादिष्टः स्वामिसकाशमभ्यागतः, एतत् वेलाव्यतिक्रमकारणम्, तदत्र स्वामी प्रमाणम्" ॥

 ११. तच्छ्रुत्वा भासुरक आह ‘भद्र ? यदि एवं, तत् सत्वरंदर्शय मे तं चौरसिंहम्, येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि’ । शशक आह, स्वामिन् सत्यमिदं, स्वभूमिहेतोः परिभवाच्च युध्यन्ते क्षत्रियाः, परं सः दुर्गाश्रयः दुर्गान्निष्क्रम्य वयं तेन विष् नदा:, दुर्गस्थश्च दुःसाध्यो भवति रिपुः" । भासुरक आह, “भोः ? किं तव अनेन व्यापारेण, दर्शय मे तं दुर्गस्थमपि" । अथ शशक आह, "यद्येवं तर्हि आगच्छतु स्वामी" ।

 १२. एवमुक्त्वा अग्रे प्रस्थितः । ततश्च तेन आगच्छता