५. तद्वचः श्रुत्वा ते करुणार्द्रचित्ताः तेन सममेव स्वदेशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये ब्रजतां ध्वांक्षाः कथयितुमारब्धाः, "रे रे किराताः ! धावत धावत । सपादलक्षधनिनो यान्ति । एतान् निहत्य धनं नयत" ।
६. ततः किरातैः ध्वांक्षवचनमाकर्ण्य सत्वरं गत्वा, ते विप्रा लगुडप्रहारैर्जर्जरीकृत्य, वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभिहितम् । 'भो पान्धाः ! पुरा कदापि ध्वांक्षवचनमनृतं नासीत् । ततो भवतां सन्निधौ क्वापि धनंविद्यते । तदर्पयत, अन्यथा सर्वेषामपि वधं विधाय, चर्म विदार्य्य प्रत्यङ्गं प्रेक्ष्य, धनं नेष्यामः' ।
७. तदतेषामीदृशं वचनमाकर्ण्य चौरविप्रेण मनसि चिन्तितम् "यदा एषां विप्राणां वधं विधाय अङ्गं विलोक्य रत्नानि नेष्यन्ति, तदाऽपि मां हनिष्यन्ति । ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्य एतान् मुञ्चामि ।
उक्तञ्च,
मृत्योर्बिभेषि किं बाल ! न स भीतं विमुञ्चति ।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥"
इति निश्चित्य अभिहितम्, "भोः किराताः ! यदि एवं ततो मां पूर्वं निहत्यविलोकयतः" ।
८. ततस्तैः यथानुष्ठिते तं धनरहितमवलोक्य अपरे चत्वारोऽपि मुक्ताः । तदुक्तम्--