पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/7

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ६ )
नृपवानरयोः ॥

 २.ततः तेन स्वभावचपलेन मूर्खेण वानरेण क्रुद्धेन सता, तीक्ष्णं खड्गमादाय, तस्योपरि प्रहारो विहितः । ततो मक्षिका उड्डीय गता; तेन शितधारेण असिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्मात् चिरायुरिच्छता केनापि मूर्खोऽनुचरो न रक्षणीयः ।

 ३. अपरमेकस्मिन्नगरे कोऽपि विप्रो महाविद्वान्, परं पूर्वजन्मयोगेन चौरो वर्तते । स तस्मिन् पुरेऽन्यदेशादागतान् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्, "अहो ! केनोपायेन एषां धनं लभे,, इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि, अतिप्रियाणि मधुराणि वचनानि च जल्पता तेषां मनसि विश्वासमुत्पाद्य, सेवा कर्तुमारब्धा ।

 ४. अथ तस्मिन् सेवां कुर्वति, तै र्विप्रैः सर्ववस्तूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि । ततः तानि जङ्घामध्ये तत्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त्तविप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ताव्याकुलितमनाः सञ्जातः । "अहो ! धनमेतत् न किञ्चित् मया चेष्टितम् (प्राप्तम्) । अथ एभिः सह यामि, पथि कापि विषं दत्वा एतान्निहत्य सर्वरत्नानि गृह्वामि" । इति विचिन्त्य तेषामग्रे सकरुणं विलप्य इदमाह, "भोः मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः तन्मेमनो भवद्भिः सह स्नेहपाशेन बद्धं, भवद्विरहनाम्नैव आकुलं सञ्जातं; यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत्"