पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/6

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ५ )
नीति कथा माला॥

भवताऽथ” स आह, “भद्र ! किं करोमि, मम मन्दभाग्यस्य बालकाः कोटरनिवासिना सर्पेण भक्षिताः तद्दुःखदुःखितोऽहं रोदिमि, तत् कथय मे यद्यस्ति कश्चिदुपायः तद्विनाशाय" ।

  ३. तदाकर्ण्य कुलीरकः चिन्तयामास । "अयं तावत् अस्मज्जातिसहजवैरी, तथोपदेशं प्रयच्छामि सत्यानृतं, यथान्येऽपि वकाः सर्वे संक्षयमायान्ति ।"

  ४. आह च "माम ! यद्येवं तर्हि, मत्स्यमांसखण्डानि नकुलस्य विलद्वारात् सर्पकोटरं यावत् प्रक्षिप, यथा नकुलस्तन्मार्गेण गत्वा तं दुष्टसर्पं विनाशयति" ।

  ५. अथ तथा अनुष्ठिते मत्स्यमांसानुसारिणा नकुलेनतं कृष्णसर्पं निहत्य, तेऽपि तद्वृक्षाश्रयाः सर्वे वकाश्च, शनैःशनैर्भक्षिताः ।


नृपवानरयोः

कथा (३)

 १. कस्यचित् राज्ञो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽन्तः पुरेऽप्यप्रतिषिद्धप्रसरोऽतिविश्वासस्थानमभूत् । एकदा राज्ञोनिद्रां गतस्य, वानरे व्यजनं नीत्वा वायुं विदधति, राज्ञो वक्षःस्थलोपरि मक्षिका उपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि, पुनःपुनः तत्रैव उपविशति ।