पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/5

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ४ )
वक नकुलयोः ॥

शास्त्रदृष्ट्या अवलोकयन्ति; तावद्धर्मबुद्धिना । तच्छमीकोटरं वह्नि भोज्यद्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् ।

 ११. अथज्वलति तस्मिन् शमीकोटरेऽर्द्धदग्धशरीरः स्फु- टितेक्षणः करुणं परिदेवयन् पापबुद्धिपिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः “भोः ! किमिदम्?’ इत्युक्ते स पापबुद्धिविचेष्टितं सर्वमिदं निवेद्योपरतः ।

अथ ते राजपुरुषाः पापबुद्धिं शमीशाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशस्येदमूचुः, “अहो ! साध्विदमुच्यते -

'उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्,” ।

            
घर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम ।
पुत्रेण व्यर्थपाण्डित्यात् पिता पापेन घातितः ॥४॥

वक नकुलयोः
कथा ( २ )

 १. अस्ति कस्मिंश्चिद्वनोद्देशे बहुवकसनाथो वटपादपः। तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म। स च वकबालकानजातपज्ञानपि सदैव भक्षयन् कालं नयति ।

 २. अथैको वकस्तेन भक्षितान्यपत्यानि दृष्ट्वा शिशुवैराग्याद् सरस्तीरमासाद्य बाष्पपूरपूरितनयनः अधोमुखस्तिष्ठति । तञ्च तादृक् चेष्टितमवलोक्य कुलीरकः प्रोवाच, “माम ! किमेवं रुद्यते