पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/4

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३ )
धर्मबुद्धि पापबुद्ध्य़ो: ।

 ८. एवं द्वावपि तौ विवदमानौ धर्माधिकारिणं गतौ प्रोचतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित पुरुपैः दिव्यार्थे यावन्नियोजितौ तावत् पापयुद्धिरा, ‘‘अहो ! न सम्यग्दृष्टोऽयं न्यायः, तदत्र विषये मम वृक्षदेवताः साक्षीभूता: तिष्ठन्ति । ता अपि आवयोरेकतरं चौरं साधुं वा करिष्यन्ति” । अथ तैः सर्वैरभिहितम्, “भोः युक्तमुक्तं भवता ! तदस्माकमपि अत्र विषये महत् कौतूहलं वर्तते । प्रयूपसुप्रये,युवाभ्यामप्यस्माभिः सह तत्र वनोद्देशे गन्तव्यमिति” ।

 ९. एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गत्वा स्वजनकमुवाच ‘तात ! प्रभूतोऽयं मयाअर्थो धम्मंबुद्धेश्चोरिक्तः, स च तव वचनेन परिणतिं गच्छति, अन्यथा ऽस्माकं प्राणैः सह यास्यतिं” । स आह‘वत्स ! द्रुवं वद, येन प्रोच्य तदद्रव्यं स्थिरतां नयामि” पापबुद्दि राह, “तात ! अस्ति तत्प्रदेशे महाशमी, तस्यां महत्कोटरमस्ति, तत्र वं साम्प्रतमेव प्रविश, ततःप्रभाते यदाहं सत्यश्रावणं करोमि, तदा त्वया वाच्यं यद् धर्मबुद्धिश्चौर इति”।

 १०. तथा अनुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि पुरःसरो धर्माधिकरणिकैः सह तां शमीमभ्येत्य तारस्वरेणमोवाच ‘भगवति वनदेवते ! आवयोर्मध्ये यश्चौरः तं कथय ।” अथ पापबुद्धिपिता शमीकोटरस्थः प्रोवाच, “‘भोः ! शृणुत,थर्मबुद्धिना हृतमेतद्धनम्” तदाकर्य सर्वे ते राजपुरुषा विस्मयोत्फुल्ललोचना यावद्धर्मबुद्धे: वित्तहरणोचितं निग्रइं