पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/3

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २ )
नीति कथमाला

 ४. अथ स्वस्थानसमीपवर्त्तिना पापबुद्धिना धर्मबुद्धिरभिहितः, "भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते, यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते तदत्र एव वनगहने कापि भूमौ निक्षिप्यकिञ्चन्मात्रमादाय गृहं प्रविशावो, भूयोऽपि प्रयोजने सञ्जाते तन्मात्रं समेत्य अस्मात् स्थानात् नेष्यावः ।

 ५. तत् आकर्ण्य धर्मबुद्धिराह, "भद्र ! एवं क्रियताम्" । तथा अनुष्ठिते द्वौ अपि तौ स्वगृहं गत्वा सुखेन संस्थितवन्तौ ।

 ६. अथ अन्यस्मिन् अहनि पापबुद्धिर्निशीथेऽटव्यां गत्वा, तत् सर्वे वित्तं समादाय गर्ते पूरयित्वा, स्वभवनं जगाम । अथ अन्येद्युः धर्मबुद्धिं समभ्येत्य प्रोवाच, “सखे ! बहुकुटुम्बा वयं, वित्ताभावात् सीदामः। तद्गत्वा तत्र स्थाने किञ्चिन्मात्रं धनमानयावः । सोऽब्रवीत् , “भद्र ! एवं क्रियताम् ।

 ७. अथ द्वावपि गत्वा तत् स्थानं यावत् खनतस्तावत् रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् प्रोवाच, “भो धर्मबुद्धे ! त्वया हृतमेतद्धनं, न अन्येन, यतो भूयोऽपि गर्तापूरणं कृतं, तत् प्रयच्छ मे तम्यार्द्ध्म्, अन्यथाहं राजकुले निवेदयिष्यामि । स आह ‘भो दुरात्मन् ! मैवं वद धर्मबुद्धिः खल्वहम् । नैतच्चौरकर्मे करोमि । उक्तञ्च,

मातृवत् परदाराणि, परद्रव्याणि लोष्टवत् ,
आत्मवत् सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ” ।