पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/25

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २४ )
घण्टोष्ट्रस्य

स्थितः । ततः, यावत् उष्ट्रः समीपम् आगतः, तावत् सिंहेन लम्फयित्वा ग्रीवायां गृहीतः ।

सतां वचनमादिष्टम् मदेन न करोति यः ।
स विनाशमवाप्नोति; घण्टोष्ट्र इव सत्वरम् ॥


महाचतुरकस्य शृगालस्य
कथा ( ११ )

 १. कस्मिंश्चित् वने महाचतुरको नाम शृगालः आसीत् । तेन कदाचित् अरण्ये स्वयंमृतः गजः समासादितः । स तस्य समन्तात् परिभ्रमति परं, कठिनां त्वचं भेत्तुं न शक्नोति ।

 २. अथ, अत्र अवसरे इतश्च इतश्च विचरन् कश्चित् सिंहः तत्रैव प्रदेशे समाययौ । अथ तं सिंहं समागतं दृष्ट्वा स करयुगलं संयोज्य सविनयम् उवाच, "स्वामिन् ! अहं त्वदीयः लागुडिकः अत्र स्थितः त्वदर्थे गजम् इमं रक्षयामि । तत् एनं भक्षयतु स्वामी ।"

 ३. तं प्रणतं दृष्ट्वा सिंहः प्राह, “भोः ! न अहम् अन्येन हतं सत्त्वं कदाचित् अपि भक्षयामि । उक्तञ्च,

वनेऽपि सिंहा मृगमांसभुक्ताः,
बुभुक्षिताः नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूताः
न नीतिमार्गं परिलङ्घयन्ति ॥,

 तत् तव एव अयं गजः मया प्रसादीकृतः । तत्