पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/24

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २३ )
नीति कथा माला ॥

 ५. ततश्च गुर्जरदेशे गत्वा, उष्ट्रीं गृहीत्वा स्वगृहम् आगतः । किम् बहुना, तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततः तेन महत् उष्ट्रयूथ कृत्वा रक्षापुरुषो धृतः । तस्य वर्षं प्रति वृत्या करभम् एकं प्रयच्छति । अन्यच्च अहर्निशं तस्य दुग्धपानं निरूपितम् । एवं रथकारोऽपि नित्यम् एव उष्ट्रीकरभव्यापारं कुर्वन् सुखेन तिष्ठति ।

 ६. अथ, ते दासेरका अधिष्ठानोपवने आहारार्थं गच्छन्ति । कोमला वल्लीः यथेच्छया भक्षयित्वा, महति सरसि पानीयं सायंतनसमये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । सच पूर्वदासेरकः मदस्य अतिरेकात् पृष्ठे आगत्य मिलति । ततः तैः करभैः अभिहितम्, “अहो, मन्दमतिः अयं दासेरकः, यथा यूथात् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन् आगच्छति । यदि कस्यअपि दुष्टस्य सत्त्वस्य मुखे पतिष्यति, ततः नूनं मृत्युः भविष्यति ।

 ७. तेषां तत् वनं गाहमानानां कश्चित् सिंहः घण्टायाः रवम् आकर्ण्य समायातः । यावत् अवलोकयति, तावत् उष्ट्रीदासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन्, वल्लरीः चरन् यावत् तिष्ठति तावत् अन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः । सोऽपि वनात् निष्क्रम्य यावत् दिशः अवलोकयति, तावत् न कञ्चित् मार्गे पश्यति, वेत्तिच । यूथात् भ्रष्टः मन्दं मन्दं बृहत् शब्दं कुर्वन् यावत् कियत् दूरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतः अग्रे व्यव