पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/23

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २२ )
घण्टोष्ट्रस्य

सन्ति । मम च न अत्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम् ?" इति चिन्तयित्वा देशात् निष्क्रान्तः ।

 २. यावत् किञ्चित् वनं गच्छति, तावत् वनमध्ये सूर्यास्तमनवेलायां स्वयूथात् भ्रष्टाम्, प्रसववेदनया पीड्यमानाम् उष्ट्रीमपश्यत् । स च दासेरकेण युक्ताम् उष्ट्रीं गृहीत्वा स्वस्थानाभिमुखः प्रस्थितः । गृहम् आसाद्य रज्जुकां गृहीत्वा ताम् उष्ट्रिकांबबन्ध ।

 ३. ततश्च तीक्ष्णं परशुम् आदाय, तस्याः कृते पल्लवानाम् आनयनार्थं पर्वतस्य एकदेशे गतः । तत्र च नूतनानि, कोमलानि, बहूनि पल्लवानि छित्त्वा शिरसि आरोप्य, तस्या अग्रे निचिक्षेप । तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवानां भक्षणात् अहर्निशं पीवरतनुः उष्ट्रीसञ्जाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः स नित्यम् एव दुग्धं गृहीत्वा स्वकुटुम्बं पालयति ।

 ४. अथ रथकारेण, वल्लभत्वात् दासेरकस्य ग्रीवायां महतीघण्टा प्रतिबद्धा । पश्चात् रथकारो व्यचिन्तयत्, “अहो ! किम् अन्यैः दुष्कृत कर्मभिः, यावत् मम एतस्मात् एव उष्ट्रीपरिपालनात् अस्य कुटुम्बस्य भव्यं सञ्जातम् तत् किम् अन्येन व्यापारेण ।" एवं विचिन्त्य गृहम् आगत्य प्रियाम् आह, “भद्रे ! समीचीनः अयं व्यापारः । तव सम्मतिः चेत्, कुतोऽपि धनिकात् किञ्चित् द्रव्यम् आदाय मया करभानां ग्रहणाय गुर्जरदेशे गन्तव्यम् । तावत् त्वया एतौ यत्नेन रक्षणीयौ, यावत् अहम् अपराम् उष्ट्रीं नीत्वा समागच्छामि ।"