पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/26

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २५ )
नीति कथा माला ॥

श्रुत्वा शृगालः सानन्दं प्राह, “युक्तम् इदं स्वामिनः निजभृत्येषु ।"

 ४. अथ सिंहे गते कश्चित् व्याघ्रः समाययौ । तम् अपि दृष्ट्वा असौ व्यचिन्तयत्, “अहो ! एकस्तावत् दुरात्मा प्रणिपातेन अपवाहितः । तत् कथं इदानीम् एनम् अपवाहयिष्यामि । नूनम्, शूरोऽयं, न खलु भेदं विना साध्यः भविष्यति ।"

 ५. एवं सम्प्रधार्य तस्य अभिमुखो भूत्वा गर्वात् उन्नतकन्धरः ससम्भ्रमम् उवाच, "माम, कथम् अत्र भवान् मृत्योः मुखे प्रविष्टः । येन एष गजः सिंहेन व्यापादितः, स च माम् एतस्य रक्षणे नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्, “यदि कश्चित् इह व्याघ्रः समायाति तत् त्वया सुगुप्तं मम आवेदनीयम्, येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम्; यतः पूर्वं व्याघ्रेण एकेन, मया व्यापादितः गजः, भक्षयित्वा उच्छिष्टतां नीतः । तस्मात् दिनात् आरभ्य व्याघ्रान् प्रति प्रकुपितोऽस्मि” ।

 ६. तत् श्रुत्वा व्याघ्रः संत्रस्त आह, “भो भागिनेय ! देहि मे प्राणदक्षिणाम्, त्वया तस्य चिराय आयातस्य अपि मदीया काऽपिवार्ता न आख्येया” । एवम् अभिधाय सत्वरं पलायाञ्चक्रे ।

 ७. अथ, गते व्याघ्रे कश्चित् द्वीपी समायातः । तम् अपि दृष्ट्वा असौ व्यचिन्तयत् "अयं चित्रकः दृढदंष्ट्रः । तत्, अस्य पार्श्वात् गजस्य यथा चर्मणः छेदो भवति, तथा करोमि ।" एवं निश्चित्य तम् अपि उवाच, “भो भगिनीसुत ! किमिति