पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. ३-४.]
प्रश्नोपनिषत्
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति॥ ३ ॥

अथ कबन्धीति॥ संवत्सरवासानन्तरमन्यैरनुज्ञातः कबन्धी पिप्पलादस्य समीपं यथाविध्युपगम्य पप्रच्छ। किमिति।भगवन् कुतो ह वा इति।स्पष्टोऽथेः॥ ३ ॥

अन्यैरनुज्ञात इति। अर्थलबधमिदम्।एकस्य निर्देशादितरेषां पञ्चानामप्रश्नो गम्यते।ॠषिषु स्पर्धाद्ययोगात् स्पर्धया इतरानुपमृद्य अयं पप्रच्छेति न युज्यते।अतस्तैरनुज्ञात इति वाच्यमिति।समीपमिति।उपेत्येत्येतत् उपनयनसंस्कारार्वगुरुप्रसदने प्रसिद्धम्।कबन्ध्यादीनां प्रागेवोपनीतत्वादिह सोऽर्थो न सम्भवति।अतः विधोपदेशाय आचार्यतया वृतं प्रति यदुपगमनं शास्त्रविहितनियमसहितं तदु विवक्षितमिति भावः।

तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा 1स मिथुनमुत्पादयते रयिञ्च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति॥ ४ ॥

तस्मै स होवाचेति॥एवं पृष्टवते कबन्धिने पिप्पलाद उवाच‌ - प्रजाकामो ह वा इति॥ अत्र प्रजापतिशब्दो ब्रह्मपरः।अस्य कारणवाक्यत्वात्।व्यासायैंः सर्वव्यारव्यानाधिकरणे अत्रत्यप्रजापतिशब्दस्य ब्रह्मपरत्वस्य समर्थितत्वात्। सः प्रसिदः प्रजापतिः परमात्मा प्रजासृष्टिकामनया स्त्रष्टव्यालोचनरुपं तपः , अतप्यत कृतवान्।स तपस्तप्त्वेति । एवं2 स्त्रष्टव्यं पर्यालोच्य रयिप्राणशब्दितप्रकृतिपुरुषाख्यं मिथुनमुत्पादितवानित्यर्थः। केनाभिप्रायेणेत्यत आह - एतौ म इति । प्रजाकामस्य मम एतौ रयिप्राणौ अनेकप्रकारान् प्राणिन उत्पादयिष्यत इत्यभिप्रायेणेत्यर्थः ॥ ४ ॥

मूले तस्मै स हेति। सुकेशादीनां पिप्पलादे जातां आचार्यत्वप्रतिपतिं ज्ञापयितुं पूर्वं भगवन्तं पिप्पलादमिति विशेषणम्। पिप्पलादस्य ब्रह्मवित्त्वप्रतिपादनाय ॠषित्ववचनमित्युक्तम्। अत्र पुनः तादृशविवक्षाविशेषविरहात् केवलतच्शब्दमात्रोपादानमिति विभाव्यम् । ब्रह्मपर इति। न तु चतुर्मुखपर इति भावः । कारणत्वं हि ब्रह्मणो लक्षणम्।तदिह श्रुतं ब्रह्मपरत्वं गमयनीति।युक्तयन्तराणि च सन्ति । विस्तरभिया न तानीह प्रतिपाद्यन्ते । तदपेक्षिभिरन्यत्र द्रष्टव्यमित्यभिप्रायेणाह - व्यासार्यैरिति। सः प्रसिद्ध इति। 'प्रजाकामो हवै प्रजापतिरासीत्। स तपोऽतप्यत' इति यद्यपि आसीत्पदमध्याह्रत्य पृथग्वाक्यतया योजनं शकयं तथापि अध्याहारगौरवात् 'सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते' इति न्यायाच्च एकवाक्यत्वं कृत्वा विकृतमिति


1. आ. 'स' नास्ति । 2. आ. ना. 'एषं' नास्ति ।