पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. २.
श्रीरङ्गरामानुजभाष्ययुक्ता
ज्ञातृत्वपरीक्षामन्तरेणैव शुश्रूषा कार्येत्ययमर्थः शिक्षितो भवति ।
तथा गुरोरपि शिष्यसंग्रहे नातीवादरः कर्तव्य इत्यर्थश्च1 सूचितः ॥ २ ॥

वासं कुर्वन्त्विति । विधियते ह्यत्र संवत्सरवास आचार्येण । तत्र भविष्यत्वमात्रं न पर्यांप्तमिति विधिविवक्षा कार्येति भावः । भवन्त इति कर्तृपदं विवक्षितम् । कुर्वन्वित्यस्य स्थाने कुरुतेति वा पठितव्यम् । वञ्चनमन्तरेणेति । ' सर्वे ह' इत्यत्र अभिप्रेतोऽयमर्थं । “पृष्ठान् विषयान् वक्ष्यामः' इति हि वाच्यम् । तत्र 'सर्वे इत्युक्तिः 'यं कमप्यर्थमपरित्यज्य' इति प्रत्याय्य वञ्चनाभिसन्धिराहित्यं गमयतीति भावः ।

मूले यदि विज्ञास्याम इति । अत्र भाष्यान्तरम् -“अनुद्धतत्वादर्शनार्थो यदिशब्दः, नाज्ञानसंशयार्थः “ प्रश्रनिर्णयादवसीयते'-इति ! अयमस्यार्थः । “यदि विज्ञास्यामः तर्हि वक्ष्यामः । यदि तु प्रक्ष्यमाणान् विषयान् वयं न विज्ञास्यामः संशयो वा तत्रास्माकं भविष्यति तर्हि न वक्ष्यामः' इत्यमर्थोऽत्र न विवक्षितः । विदितवेदितव्यो हि पिप्लादः । अत एव हि ' तान् ह स ऋषिरुवाच' इति ऋषिपदमधिकं घटयति भगवती श्रुतिः। शक्यं ह्यन्यथा तेन पदेनाप्रयुक्तेन भवितुम् । तथा च वस्तुतोऽज्ञानस्य संशयस्य वाऽत्र असम्भवात तत्सम्भावनां प्रकाशयन्नयं यदिशब्दः वक्तुरनुद्धतत्वप्रकाशनपरः पर्यवस्यति । यथाकामं प्रश्नान् पृच्छत । सर्व वो वक्ष्यामः' इत्येतावन्मात्रोक्ती हि प्रक्ष्यमाणसर्वविषय विज्ञानसम्पत्तिमत्ता प्रख्यापिता स्यात् । तेन चौद्धत्यमवश्यं प्रतीयेत । अतोऽनौद्धत्यप्रकानायोच्यते यदि विज्ञास्याम इतीति । अत्र तु अज्ञानसंशयार्थत्वं कृत्वापि शक्यं व्याख्यानमित्यभिप्रेत्योक्तं-यद्यस्मास्वित्यादि । यदि विज्ञास्यामस्तहिं वक्ष्यामः । यदि न विज्ञास्यामस्तर्हि न वक्ष्यामः । किं कुर्याम, इत्येवार्थः । विजानतोऽपि ऋषेः कथमेवमुक्तिरिति चेत् एवं स मेने । 'सर्व वो वक्ष्यामः' इत्येवाभिधाने 'यद्यदस्माभिः पृच्छयेत तत्सर्वमेष जानानीति अस्मन्मुखात् निश्चयं ते लभेरन् । तन्मा भूत् । अस्मद्भज्ञानं प्रति अनिश्चय एव भवत्विति । किमर्थमिति चेत् गुरुत्वेन कृतस्य ज्ञातृत्वे निश्चयविरहेऽपि शिष्यैः शुश्रूषा कर्तव्येति बोधनाय । गुरुणा शिष्यसङ्गहे नातीवादरः कर्तव्य इत्येतद्वोधनाय च । । सर्व वयं जानीमः सर्वं वो वक्ष्यामः' इत्युक्तौ हि तेषां परिग्रहे अत्यादरः प्रदर्शितः स्यात् । तत्परिहाराय “ यदि विज्ञास्यामः वक्ष्याम | क्लेशसाध्यसंवत्सरशुश्रूषानन्तरं 'इमान् प्रश्रान् नाहं जानामि' इत्ययं वक्ष्यति चेत् किं वयं कुर्यामेति भीता यदीदानीमेव गन्तुमिच्छथ गच्छत' इति प्रतिपत्तिरुर्दिष्टति |

अवसीयते । कः । यदिशब्दः । कथम्भूतोऽवसीयते । अनुद्धतत्वप्रदर्शनार्थ । कथम्भूतो नावसीयते । अज्ञानसंशयार्थो नावसीयते । कस्मात् | प्रश्रनिर्णयात् ।' इत्येवमन्वयस्य सुधटतत्वात् आनन्दगिर्युक्त इतिशब्दाध्याहारोऽनपेक्षित इति ज्ञेयम् ।


1. पू. म. चकारो नास्ति