पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. ५.
श्रीरङ्गरामानुजभाष्ययुक्ता

बोध्यम् । वस्तुतस्तु अत्र आख्याताश्रवणं 'अस्तिभवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्ति' इत्वनुशासनविद्वमध्याहारं गमयति।तेन,'प्रजाकामो हवै' इति विधेयविशॅषणस्य पश्चात्प्रयोगमुचितं परित्यज्य प्रथमं प्रयोगेन च प्रजापतिःअपरिहार्यतया प्रलयदशां प्रवर्तयन्नपि सर्वदा प्रजाकाम एव भवतीत्येवम्परमिदं पृथग्वाक्यमेव। एवम्भूततया सःप्रलयावशाने कथं प्रजाः स्रष्टृव्या इत्यालोचनमकरोदित्येवम्परं स तपोऽतप्यतेति वाक्यन्तरमिति शक्यं वक्तुम्। आलोचनरूपमिति। तप आलोचने इति तो धातुः। पुरुषाख्यमिति। इतिशब्दलब्धमेतत्त।रयिं च प्राणं चेति मिथुनमित्यन्वयात्। रयि प्राणमिति द्वितीया प्रथमार्धे व्यत्ययेनोपपाद्य। रयिं च प्राणं चोत्पादयते,इति मिथुनमुत्पादचत इति योजना वा। उत्पादितवानित्यर्थ इति। उत्पादयत इति वर्तमानार्थानन्वयादिति भावः।ऋषेस्तु भवन्ती प्रयुञ्जानस्यायमभिप्रायः। तन्मिथुनोत्पादनं भूतमपि प्रत्यक्षं वर्तमानमिव पश्यामीति। अनेन च स्वस्य तत्वार्यनिश्चयं सुदृढं स्थितं शिष्येभ्यः प्रकाशयति उपदिश्यमानेऽर्थे तेषां प्रत्ययदाढ्रर्याय।

आदित्यो ह् वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतस्सर्वं
यन्मृर्तञ्चमृर्तञ्च तस्मान्मूर्तिरेव रयिः॥५॥

रयिप्राणशब्दार्थमाह-आदित्यो ह वा इति। भोग्यं आदत्त1 इत्यादित्यः भोक्ता। स एव प्राण इत्यर्थः। 2तस्य प्राणशब्दितत्वे हेतुः समनन्तरमेव वक्ष्यते।"रयिरेव चन्द्रमा"इत्यस्याभिप्रेतमर्थमाह-रयिर्वा इति। 3मूर्तशब्देन पृथिञ्यप्तेजांसि उच्यन्ते।अमूर्तशब्देन वाच्वन्तरिक्षे उच्येते। सर्वमपि भूतजातं रयिः अन्नम्,भोग्यमित्यर्थः। तस्मान्मूर्ति4 शब्दितं पाञ्चभौतिकं शरीरं सर्वं भोग्यमेवेत्यर्थः॥५॥

आदित्यपदस्य यो रूढ्यर्थः सूर्यः तस्यंहासङ्गतत्वात् योगिकं जीवमर्थमाह-आदत्त इति। भोग्यं वस्तु भोगार्थं गृह्माणित्यर्थः। आदित्यपदस्यार्थमुक्ता व्याक्यार्थमाह-स एवेति। प्राण इति। प्राणशब्दवाच्य इत्यर्थः। रयिरेव चन्द्रमा इत्यस्येति। अथास्य वाक्यस्य का योजना? सा कस्मान्न दर्शिता?उत्तरत्र चन्द्रमश्शब्दार्थविवरणस्यादर्शनात् 'चन्द्रमा इत्यस्य' इति कथमुच्यते?इति चेदुच्यते।'चन्द्रमा एव रयिः'इत्यन्वयस्त्तावत् सुबोधः। रयिशब्दार्थस्य वक्तव्यत्वेन तस्योतद्देश्यत्वायोगे आदित्यो ह वा इत्येतद्वाक्यवत् चन्द्रमा एव रयिरिति वचनभग्ङ्या अवश्यम्भावात्। एवं स्थिते चन्द्रमश्शब्देन किं विवक्षितमिति प्रदर्शनीयम्। तदुत्तरवाक्येन श्रुत्यैष स्फुटीक्रियत इत्यभिप्रेत्य रयिरेव चन्द्रमा इत्यस्येत्युक्तम्।'यन्मूर्तं चामूर्तं च भूतं एतत् सर्वं रयिः'इति हि तत्रोच्यते। तत्र मूर्तामूर्तसर्वभूतजातस्योद्देश्यत्वेन निर्देशात् ।


1. आ. ठयतिरिक्तेषु 'भोग्यं' नास्ति । 2. पू. 'इत्यर्थः।' इत्यतः परं आदित्यशब्दितभोक्तप्रतिद्वन्द्वतया भोग्यवर्गस्य चन्द्रत्वेन निर्देशः' ति दृश्यते । 3. आ. पू. मूर्ति । 4. प्र. पू. 'मूर्त' ।