पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. ५.]
प्रश्नोपनिषत्

अस्मिन् वाक्ये उद्देश्यवाचिना चन्द्रमश्शब्देन तदेव भूतजातमभिप्रेतमेित्येतत् स्पष्टमेव । एतेन चन्द्रमश्शब्दार्थस्योत्तरत्र विवरणं न दृश्यत इत्येतत् प्रत्युक्तम् । एवं चन्द्रमश्शब्दाभिप्रेतार्थस्य श्रुत्यैव दर्शितत्वात् तस्य शब्दस्य यो मुख्यार्थेश्चन्द्रः तस्यात्र अत्यन्तं परित्याग एवेति स्पष्टम् । अत एवं तत्सहपठितस्य आदित्यपदस्यपि अविवक्षितमुख्यार्थत्वप्रतीतेः योगेनामुख्यार्थपरतैव दर्शितेत्य वधेयम् । कैिव मुख्ययोः सूर्याचन्द्रमसोर्विवक्षायां ' स मिथुनमुत्पाद्यते आदित्ये च चन्द्रमसे च । आदित्यो ह वै प्राण: चन्द्रमा रयेिः ’ इत्येवंवेिधया वचनभङ्गया भाष्यमित्यपि ज्ञेयम् ।

रयेि: अन्नमितेि । रयिशब्दस्य अन्नं मुख्यार्थः । अत्र विवक्षितार्थः भोग्यमिति । नन्विदमसङ्गतम् । रयिं च प्राणं चेत्यत्र रयिप्राणशब्दार्थ: क इतेि जिज्ञासायां तद्ज्ञापनाय प्रवृत्तं आदेित्यो मा इत्यादीति ह्यक्तरणिका कृता । तदनुगुणतया मूर्तामूर्त सर्वं भूतजातं रयिशब्दवाच्यमेिति व्याख्यातव्यम् । तद्विहाय सर्वे भूतजातं भोग्यमित्युक्ते का सङ्गतिरिति चेत्--अत्रेदं बोध्यम् । चन्द्रमश्शब्दो हि भूतजाते औपचारिकः । तत्र उपचारनिमित्तं वाच्यम् । भूतजातं रयिशब्दवाच्यमित्युक्ते कथमिति जिज्ञासा जायते । सा च परिहृतव्या । अतः इदमुभयमुद्दिश्य रयिशब्दः वाच्यमिति व्याख्येयमपि सुज्ञानत्वादव्याख्याय रयेिपदप्रतिपाद्यमर्थमेवाह अन्नं, भोग्यमित्यर्थं इति । भूतजातं मोग्यमिति प्रतिपादिते हेि चन्द्रमा यथा भोग्यः तथा भूतजातमपीति सादृश्यनिमित्तक उपचार इति, भोग्यत्वादेव रयेिशब्दवाच्यत्वमुपपन्नमिति च प्रदर्शितं भवति । अतो न काचिदनुपपत्तिरिति । ननु चन्द्रमा एव रयिरिति न्याय्यं क्रमं परित्यज्य कथं क्रमान्तराश्रयणमिति चेत् मिथुनस्य अन्येन व्यवधानं न सहते श्रुतिरिति पश्यामः । तथाहेि चन्द्रमसा मध्ये निविष्टेन रयिप्राणयोर्व्यवधानं स्यात् । उत्तरत्र अयनादीनां रयित्वप्राणत्वे औपचारिके । न वस्तु तस्तत्र मिथुनभावोऽस्तीतिं वेिभाव्यम् । अथात्र अधिप्रजसंहितायां मातुः पूर्वरूपत्वात् " रयिं च प्राणे व ' इतेि रयेः प्रथमनिर्देशः आह्रतः । तदनुसारेण रयिनिरूपणे प्रथमकर्तव्ये सति किमिति `आदेित्येो ह वै प्राणः ' इति प्राणस्य प्राथम्यमिति चेत् सत्यम् । तथैव रयिनिरूपणमेवात्र प्रथमं क्रियते। प्राणनिरूपणं पश्चादेव अथादित्य इति । ननु आदित्यो ह वै प्राण इति प्राणवाक्यै प्रत्यक्षं प्रथमं पठ्यते । सत्यं पठ्यते । न त्वेतदेव कृत्स्नं प्राणनिरूपणपरं प्रकरणम् । तत्रैव सङ्गतमपि अल्पमिदमेकं वाक्यमादौ पठितम् । कथम् । रयिनिरूपणाङ्गतया । औपचारिकोऽपि चन्द्रमा हेि अत्र आदौ प्रस्तूयते रयिरेव चन्द्रमा इति । न च चन्द्रमस आदेित्यं विना स्थितिः । तस्य तस्मिन् प्रतिष्ठितत्वात् । यथाऽऽम्नातं तैत्तिरीयब्राह्मणे “ आदेित्योऽसि दिवि श्रितः । चन्द्रमसः प्रतिष्ठा । चन्द्रमा अस्यादित्ये श्रितः ।” इतेि । तदिह चन्द्रमोनिर्देशौपयिकतया रयिप्रकरणशेषत्वेन आदित्यवाक्यपठनम् । न तु प्राणप्रकरणोपक्रममभिसन्धायेति ।

तस्मान्मूर्तौतेि । मूर्तामूर्तभूतजातस्य रवित्यादेव तदारब्धाया मूर्तैः शरीरस्य रयित्वं भवतीत्यर्थः । यस्मात् कार्ये शरीरे रयित्वं दृश्यते तस्मात्तदुपादाने भूतजाते रश्त्विमवश्यम्भावीति पूर्ववाक्योक्तार्थहेतुत्वेन पर्यवसानं द्रष्टव्यम् । तदेवं रयेिप्राणशब्दार्थः क इति प्रश्नस्य भोक्ता जीवः प्राणः, भोग्ये भूतजाते रयिः इति समाधानमुक्तं भवतीति ज्ञेयम् ।