पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. ६.
श्रीरङ्गरामानुजभाष्ययुक्ता

अथादित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते।
यद्द्क्षिणां यत् प्रतीचीं यदुदीचीं यदधो यदृर्ध्वं यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते॥६॥

अथादित्यः।रयिनिरूपणानन्तरं आदित्यः; वर्ण्यत इति शेषः। आदित्य शब्दितस्य भोक्त्तुः प्राणशब्दितत्वे हेतुरुच्यत इति यावत् । उदयन् यत्प्राचीं दिशं प्रविशतीति। अयं जीवः सुषुप्तिस्थानात् प्रबुद्ध्यमान एव सन् प्राचीं दक्षिणां प्रतीचीमुदीचीमधश्र्चोर्ध्वं च अन्तरा दिशश्र्च सर्वं प्रकाशयन् ततद्दिग्वर्तीन्द्रियाणि धर्म:भूतज्ञानाग्व्यरश्मिद्वारा बिभर्ति। तस्मात्स एव प्राणशब्दितेन्द्रियनिर्वोढृत्वात् प्राण इत्यर्थ:। प्राचीं दिशं प्रविशति प्रकाशयति। प्राच्यान् पदार्थानुपलमत इति यावत्। तेन तस्माद्धेतोः प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते पूर्वदिग्वर्तिपदार्थप्रकाशकान् चक्षुरादीन् प्राणान् धर्मभूतज्ञानाख्यरश्मिमुखेनाधितिष्ठति प्रेरयति। धर्मभूतभूतज्ञानेन तदधिष्ठातृत्वलक्षणसन्निधानाभावे चक्षुरादिना करणेन रूपाद्युपलम्भो न स्यात्। चेतनानधिष्ठितस्य करणस्य कार्यासमर्थत्वादिति भावः। "यद्दक्षिणां यत् प्रतीचीं यदुदीची " मित्यादौ 'यद्दक्षिणां प्रविशति तेन दाक्षिणात्यान् प्राणान् रश्मिषु सन्निधत्ते, यत् प्रतीचीं प्रविशति तेन प्रतीच्यान् प्राणान् रश्मिषु सन्निधते' इत्यादिशेषः पूरणीयः। लाघवार्थं प्रतिपर्यायं तदनुक्तिः। अत्र प्रजा: सिसृक्षुः परमात्मा प्रकृतिं पुरुषं च ससर्जेति वक्तव्ये परोक्षरूपेण रयिप्राणशब्दाभ्यां तदभिलाप: रयिप्राणयोश्चन्द्रादित्यशब्दाभ्यामभिमापश्च "परोक्षप्रिया इव हि देवा" इति रीत्या रहस्यार्थस्य स्फुटतरोपदेशानर्हत्वसूचनार्थ:॥ ६ ॥

वर्ण्यत इति शेष इति। अथादित्यो वर्ण्यत इत्येकं वाक्यम्। उदयन्नित्याद्यपरम्। अत्र कर्तृवाचनः जीवपदस्याध्याहारो वा, आदित्यपदस्यानुषङ्गो वेत्यभिसन्धिः। यद्यपि 'आदित्य उदयन् यत् प्राचीं प्रविशति' इत्येकवाक्यता स्वारसिकी भाति अध्याहारादिक्लेशाप्रसङ्गश्च, तथापि उपक्रमे अथशब्दश्रवणात् तदर्थस्यानन्तर्यस्य आख्यातोक्तप्रवेशादावन्वयस्यानुप्रपन्नत्वात वाक्यभेदादि सर्वं सोढव्यमिति भावः।

प्रकाशयतीति। शरीरान्तः स्थितस्याणोर्जीवस्य स्वरूपतः वाह्यपदार्थप्रवेशो न सम्भवतीति ज्ञानप्रसरद्वारा स वाच्यः। ज्ञानद्वारा प्रवेशः प्रकाशनमेव। न हि तदतिरिक्तं किश्चिदस्तीति।


1. प्र.पु. चकारो नास्ति । 2. ना.पु. "सर्वप्राण" । 3. आ. ना. "चन्द्रावित्याभ्याम्"। 4. प्र. अस्यार्थस्य।