पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. ७.]
[ ९
प्रश्नोपनिषत्

भावः । प्रकृतोपयोगितया पर्यवसन्नमर्थमाह-उपलभत इति यावदिति । वस्तूनां प्रकाशो हि ज्ञातुस्तदुज्ञानं सति भवति । तादृशज्ञानवर्त्त्वमिह विवक्षितम् । यत् प्रविशति यज्जानातीत्यर्थ इति भावः । तस्माद्धेतोरिति । ज्ञापकोऽयं हेतुरिति विभाव्यम् । पूर्वदिगिति । दिक्शब्देन तद्वर्तिपदार्थलक्षणेति भावः । रश्मिषु सन्निधत्ते सम्यङ् निधत्ते । सम्यङ्निधानं नाम अभिमतकार्यकारितयाऽवस्थापनम् । इयमर्थं शास्त्रप्रसिद्धेन लोकप्रसिद्धेन च पदेन स्फुटीकरोति-अधितिष्ठति प्रेरयतीति । पदार्थोपलम्भेन हेतुनाऽध्विष्टातृत्वं साध्यम् । अत्र व्यतिरेकमुखीं व्याप्तिमभिमतांप्रदर्शयति-धर्मभूतेति ।

मुख्ययोः सूर्याचन्द्रमसोरत्र सर्वथा प्रसावो नास्तीत्युक्तम् । तद् दृढीकुर्वन्नाह-अत्रेति । प्रकृतिमिति । यद्यपि मूर्तामूर्तविभागविभक्तानि पञ्च भूतान्येव प्राक् रयिशब्दार्थतया विवृतानि तथापि तात्पर्यगत्वा तेषामप्युपादानभूता मूलप्रकृतिरेव रयित्वेनाभिमतेत्यभिप्रेत्यैवमुक्तमिति ज्ञेयम्।

स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते ।
तदेततदृचाऽम्युक्तम् ॥७॥

"आदित्यो ह वै प्राण" इति प्राणशब्द1 निर्दिष्टस्य भोक्तृवर्गस्योदयमानस्य परमात्मात्मकतामाह---स एष वैश्वानरो विश्वरुप इति । यः प्राक् प्रस्तुतः प्रजापतिशब्दितः, विश्वेषां नराणां नेतृत्वेन वैश्वानरशब्दवाच्यः, सर्वशरीरतया विश्वरुपशब्दितः, अग्रनेतृत्वादिगुणयोगेन अग्निशब्दितः, स एष प्राक् प्रजापति-शब्दनिर्दिष्टः परमात्मा "आदित्यो ह वै प्राण" इति प्राणशब्दितभोक्तृरुपःसन् उदयत इत्यर्थः । अयं च मन्त्रो वैश्वानराधिकरणे परमात्मपरतया सिद्धवत्कृत्य भगवता भाष्यकृता व्यवह्रतः । अत एवं व्यारव्यानमिति द्रष्टव्यम् । तदेतदृचाभ्युक्तम्; तदेतत् ब्रह्म अभिमुरवीकृत्य 2ऋच्यन्त्त्रेणोक्तम् ॥७॥

७. परमात्मात्मकतामिति । वैश्वानरादिपदानि परमात्मवाचीनि । प्राणपदं जीववाचि । तेषामस्य च सामानाधिकरण्येन प्रयोगः शरीरात्मभावनिबन्धन इति भावः । नन्वचान्तरप्रकरणानुरोधेन कृत्स्त्रमिदं वाक्यं केवलजीवात्मपरतयैव कुतो न व्याख्यायत इत्यत्राह-अयं च मन्त्र इति । इदं श्रुतिवाक्यमित्यर्थः । सिद्धवदिति । वैश्वानरशब्दः परमात्मनि च प्रयुज्यत इति प्रदर्शनाय "परमात्मनि च ' तदात्मन्येव हृदय्येऽग्नौ वैश्वानरे प्रास्यत्' ' स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयत' इति च " इति श्रीभाष्ये उक्तम् । तदत्रानुसन्घेयम् । स्वतन्त्रतया जीवप्रतिपादनं 'कुतो ह वा इमाः प्रजाः प्रजायन्ते' इत्येतत्प्रश्नोत्तरप्रकरणेऽस्मिन्न सङ्गच्छंतेति भाष्यकृतामाशयः ।


1. प्र.पू. 'प्राणादित्यशब्दः'। 2. प्र.पू.मःत्रेणाप्युक्तम् ।