पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
१. ८.
श्रीरङ्गरामानुजभाष्ययुक्ती

अभिमुखीकृत्यैति तदेतत् ब्रह्म ऋचा उत्तमित्येव व्याख्यातुं शक्यम्।किन्तु अभिरुपसर्गस्त्तत्रानतिप्रयोजनः स्यात्।अतः प्रसिद्धं पूर्ववाक्योक्त्तं ब्रह्मामिमुखीकृत्य वक्ष्यमाणमुक्त मिति योजनाआहतेति भावः। ॠङमन्त्रेणेति।छन्दोबद्धत्वादढ्मन्त्रत्वम्।न त्वयं ऋग्वेदे पठितो मन्त्र्:।

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्त्ररश्मि:शतधा वर्तमान: प्राण: प्रजानामुदयत्येष सूर्यः॥ ८ ॥

विश्वरूपं हरिणमिति। विश्वरुपं सर्वशरीरम् । जातानि वेदांसि1 यस्मात्स जातवेदा: । "प्रज्ञा च तस्मात् प्रसृता पुराणी" ति सर्वज्ञानोत्पाद्कम्। परायणं परमप्राप्यम्2 ज्योतिः सर्वप्रकासशकदीप्तिमन्तम् एकं अद्वितीयम् तपन्तं जाठरग्न्या3 दिरुपेण तपन्तम्, "सन्तापयति स्वं देहमापादतलमस्तकम् " "अहं वैश्वानरो भूत्वा प्राणीनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विघम् । " इति श्रुतिस्मृतिभ्याम् हरिणं हरिमित्यर्थः । हरिशब्दस्य नान्तत्वं छान्द्सम् । वर्तमानः अनुवर्तमानः । तद्विघेयतया तच्छरीरभूत इति यावत् । सह्स्ररश्मिः नानाविषयविषयकज्ञानवान् । प्रजानां4 स्थावरजड्गमात्म5 कानां, प्राणः6 घारकः सूर्यः7 सूर्यवत्प्रकाशः8 एषः जीवः शतघा देवमनुष्यादिनानाविघदेहात्माभिमानशालितया सुषुप्तिस्थानादुदयते 9। सर्गकाले उदयत इति वाऽर्थः ॥८॥

जाठरेति । विश्वरूपमिति प्रजास्रृष्टीरुक्ता । जातवेदसमिति ज्ञानप्रदानम् । परायणं ज्योतिरित्वाराध्यतयाऽवस्थानम् ।अतः अन्ते तपन्तमित्यनेन आराधनोपयुक्तार्थसम्पत्यनुगुणस्तापो विरक्षित इति ज्ञायत इति भावः । अनुवर्तमान इति : उपसगस्य घोतकमात्रत्वात् तदमावेऽपि अपेक्षानुरोघेन केवलधादुरपि इममर्थ प्रतिपादयितुमह्र्त्येवेति भावाः । नानाविघविषयेति । आदित्यरूपमुख्यार्थत्वात्र विरहात् अतिशयोक्तिन्यायेन एवं व्याख्यातव्यं भवतीति भावः । सुषुप्तिस्थानादिति । 'उदयन् यत् प्राची दिशं प्रविशति ' इति पूर्वेण ऐकरूप्यमभिसन्घायेदम् । तत्र उदयन् यत् प्रविशनीत्युदयस्य अनुवाद्यगतत्वात् 'तेन प्राच्यान् प्राणान् रश्मिषु सन्निधते' इति सृष्ट्यनन्तर कालिकव्यापाराभिधानाच्च व्याख्यानमावश्यकम् । अत्र तु तथा विशेषानवगमात् आद्य एवोदयः स्वरसतः प्रतीयते । न च पूर्ववैरुप्यं दोषः। ऐकरुप्ये प्रमाणाभावेन तस्यैव तथात्वादित्यभिप्रेत्याह‌- सर्गकाल इति ।


1. प्र. " वेदांसि वेदाः " । 2. आ. ना. " परं प्राप्यम् " । 3. प्र. ' जाठरादित्यादि ' । 4. आ. ना. प्राणानाम् । 5. आ. ना. स्थावरजङ्गमकानां प्राणानाम् । 6. आ. ना. नास्ति । 7. आ. ना. पू. नास्ति । 8. प्र. व्यतिरिक्तेषु ' प्रकाशकः ' । 9. प्र. उदयति ।