पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. ९.]
११
प्रश्नोपनिषत्

संवत्सरो वै प्रजपतिस्तस्यायने दक्षिणञ्चोत्तरञ्च नध्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ने चान्द्रमसमेव
लोकभिजयन्ते त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष ह वै1 रयिर्यः पितृयाणः॥९॥

एवं सूक्ष्मप्रकृतिजीवशरीरकस्य प्रजापतेः रयिप्राणशब्दितप्रकृतिपुरुषरूपभाग्यभोक्तात्मना विभागमुपवर्ण्य तस्यैव परमात्मनः अखण्डकालरूपेण स्थितस्य2 खण्डकालरूपेण विभागं दर्शयिष्यन्3 चितावतरणाय वा उपासनार्थं वा संवत्सराख्यप्रजापतेः दक्षिणोत्तरायणात्मकं रयिप्राणरूपं विभागं, तथा मासाख्यप्रजापतेः रयिप्राणशब्दितं कृष्णशुक्लपक्षात्मकं विभागं, अहोरात्रात्मककालरूपप्रजापतेः रयिप्रणात्मकं रात्र्यहरात्मकं विभागं, तत्प्रसंगेन रयिशब्दार्थदक्षिणायनकृष्णपक्षरात्र्यपेक्षया प्राणशब्दार्थभूतोत्तरायणशुक्लपक्षदिवसानां उत्कर्षञ्च वत्त्कुमारभते---संवत्सरं वा इति। तस्य संवत्सराख्यकालरूपस्य5 प्रजायतेः दक्षिणोत्तरशब्दिते अयने6 सूर्यगत्याधारभूते द्वे रूपे स्तः। 7तद्ये ह वा इति। ह वा इति प्रसिद्धौ स्मरणे वा। अयमर्धः। तत् "8तत्र ये पुरुषा9" इष्टापूर्ते दत्तमिति तत् कर्मोपासत इत्यर्थः। "य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते" इति श्रुत्यन्तरैकार्थ्यात् कृतशब्दो दत्तपरः। इष्टं यागादि श्रौतं10, पूर्त खादाति। इतिशब्दः प्रकारवचनः। यागदानवापीकूपादिकं कर्म येऽनुतिष्टन्ति, ते चन्द्रम11 स्सम्बन्धिनं लोकं अभिजयन्ते12 अभिजयन्ति प्राप्नुवन्ति। त 13एव पुनरावर्तन्ते। न त्वात्मोपसका उत्तरमार्गेण गता इत्यर्थः। तस्मादेत इति। तस्माद्धेतारेते कर्मठाः प्रजास्वर्गादिलक्षणक्षुद्रफलकामाः ऋषयः क्षुद्रफलद्रष्टारः दक्षिणं पन्थानं पितृयाणशब्दितं प्रतिपद्यन्ते। एष एव14 पितृयाणः रयिः अन्नप्रधानः, वैषयिकभोगात्मक इति यावत्। यद्यपि " धूमो रात्रिस्तथा कृष्ण" इत्यादिप्रमाण-


1. "इत्येष व"। 2. आ.ना. अखण्डकालरूपेण स्थितस्य नास्ति । 3. आ.ना.प्रदर्शयिध्यत् । 4. आ.पू.'तस्य' नास्ति । ना. "तद्वत्"। 5. आ.कालरूपप्रजापतेः । 6. आ.प.पू."द्वे अयने"। 7. आ.'तत्' नस्ति । 8. आ.ना.पू."तत् तत्र" नस्ति । 9. ना 'ये पुरुषाः' नास्ति । 10. आ.पू.'श्रौतम्' नस्ति । 11. पू. चन्द्रमसः । 12. पू.'अभिजयन्ति' नस्ति । 13. आ.ना.'अठ एव'। 14. प्र.'एव' नस्ति ।