पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
१. ९.
श्रीरङ्गरामानुजभाष्ययुक्ता

प्रतिपन्नः पुराणेषु दक्षिणमार्गनिर्दिष्टो धूमादिश्चन्द्रान्तः पितृयाणोऽप्यन्यः । संवत्सरावयवभूतषण्मासात्मा दक्षिणायननिर्दिष्टोऽप्यन्यः । तथापि दक्षिणायनशब्देन द्वयोरपि व्यवह्रियमाणत्वात् कालमार्गयोरेकीकृत्य व्यवहार उपपद्यत इति द्रष्टव्यम् ।। ९ ।।

सूक्ष्मेति। न हि प्रजापतिः स्व स्वरूपादेव प्रकृतिपुरुषादुत्पादयतीत्युपपद्यते । तस्याविक्रियत्वात् । अत इदं विशेषणमाक्षिप्यत इति भावः । खण्डकालेति । संवत्सरमासाहोरात्ररूपेण त्रेधेत्यर्थ । यद्यपि 'संवत्सरो वै प्रजापतिः तस्य त्रीणि रूपाणि 'संवत्सरो वै प्रजापतिः' 'नासो वै प्रजापतिः' 'अहोरात्रो वै प्रजापतिः' इति पृथक् पृथगभिधानेन अर्थतस्तथा विभाग कृतो भवतीति भावः । चित्तावतरणायेति । चित्तस्य प्रजायतौ प्रजापतेर्वा चित्ते, अवतरणम् स्फुटप्रतीतय इति तात्पर्यम् । संवत्सरः प्रजापतिरित्युक्ते श्रोता शङकेत कथं संवत्सरः प्रजापतिरिति । तत्र, संवत्सरस्य हि द्वावंशौ स्तः दक्षिणायनमुत्तरायणं च; तत्र एको रयिः अपरः प्राणः इति प्रतिपादने, रयिप्राणरूपमिथुनसम्बन्धः प्रजापतेः प्रागुक्त । संवत्सरो यदि रयिप्राणरूपांशद्वयवान् तर्हि स प्रजापतिर्भवितुमर्हत्येवेति समाधानं कृतं भवतीति । यधुच्येत-अयनयोर्वा कथं रयित्वप्राणत्वे । उपदेशादिति चेत् संवत्सरस्य प्रजापतित्वमपि तथैवोपदेशात् निश्शङ्क ग्रहीष्यते । किं तत्र चित्तावतरणार्थमिति किञ्चिदमिधातव्यम्-इति तत्र तत एवास्वरसात् प्रयोजनान्तरमाह - उपासनार्थं वेति ।आम्नानस्य हि फलं किञ्चिदवश्यं वाच्यम् । तत्र यद्युक्तार्थोपयादकत्वं न सम्भवति, उपासनमगत्या प्रयोजनं वाच्यम् । सम्भवति च तत् ।कार्याख्यानादपुर्वमिति न्यायादिति भावः । तत्प्रसङ्गेनेति । कुत इमाः प्रजाः प्रजायन्त इति प्रश्रस्योत्तरवचनप्रकरणमिदम् । तत्र प्रकृतिपुरुषरूपेण संवत्सरादिकालरूपेण च स्थितात् प्रजापतेः प्रजाः प्रजायन्त इत्युत्तरमभिप्रेतम् । अत्र अयनयोः पक्षयोः दिवाकालरात्रिकाल्व्योश्च मिथ उत्कर्षापकर्षप्रतिपादनस्य नास्त्युपयोगः । अतः साक्षात्सङ्गत्यभावात् प्रसङ्गसङ्गतिरेव वाच्येत्यभिसन्धिः । आधारेति । अधिकरणे ल्युडिति भावः स्मरणे वेति । उक्तप्रसङ्गत्यनुगुणमिदमर्थान्तरमिति बोध्यम् । अयमर्थ इति । श्रोतॄणामवधानसम्पादनाय व्याख्यानप्रतिज्ञेयम् । इदं त्यक्तुं शक्यम् ; पाठान्तरेण वा भवितव्यमिति भाति । उपरि उपासत इत्यर्थ् इत्यत्रस्योऽशब्दो वा त्यक्तव्यः । तदिति लुप्तसप्तमीकमव्ययमित्यभिप्रेत्याह- तत् तत्रेति । कृतमित्यस्य वक्ष्यमाण प्रकारेण विवक्षितमर्थमाह-दत्तमिति । द्वितीयतच्छब्दस्य इतीशब्दानन्तरं स्थानमित्यभिप्रेत्याह-इति तदिति । तं व्याचष्टे - कर्मेति । इष्टं पूर्तमिति विशेषोपादानं तच्छब्दार्थजिज्ञासायां सामान्यमाक्षिपतीति भावः । उक्तेऽर्थे उपपत्तिं दर्शयन् स्पष्टतरं विवृणोति- य इम इत्यादिना ।आत्मनेपदं छान्दसमित्यभिप्रेत्य न्याय्यं रूपं दर्शयति - अभिजयन्तीति। क्रियाफलस्य भोगस्य कर्त्रभिप्रायतां गमयितुं व्यत्ययेनापि श्रुतिरात्मनेपदं परिगृह्णातीति ज्ञेयम् । चान्द्रमसमेवेत्येवकारः आदित्यलोकव्यावृत्तिपरः । स्पष्ठत्वादिदं नोक्तम् । एवकारार्थं विवृणोति- नत्विति । तस्माद्हेतोरिति । यस्मात् चन्द्रमसं गत्वा पुनरावर्तन्ते तस्मादित्यर्थः । चन्द्रलोकप्रापकत्वपुनरावृत्तिमत्वे हि दक्षिणमार्गस्य लक्षणभूते । तादृशी चन्द्रलोकप्राप्तिः पुनरावृत्तिश्च यस्मादेतेषां विद्येते