पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. १०.]
१३
प्रश्नोपनिषत्

तस्मादेते दक्षिणमार्गगामिन इति भावः । एते कर्मठा इति । एत इत्यङ्गुल्या निर्देशात् सामान्याधिकारित्वं ततोऽनुत्कर्षश्च प्रतीयते । तत् कर्मठा इत्यनेन स्फुटीकृतम् । नन्वीदृशानां कथमृषित्वमित्याशङ्कय अविरोधेन तद्व्याचष्टे- क्षुद्रेति । अतीन्द्रियार्थदर्शित्वाद्व्याहृतमृषित्वम् । परन्तु कृच्छ्लब्धां तां शक्ति बत क्षुद्रफलवर्गमात्रे विनियुञ्जत इति स्वकीयं शोकमाविष्करोति श्रुतिरिति भावः । 'ऋषित्वयोग्याः' इत्यपि शक्यं व्याख्यातुम् । तथत्वे योग्या अपि तथा न भवन्ति क्षुद्रफलसङ्गादिति शोकाविष्कारः ।

पन्थानमिति । यद्यपि दक्षिणमित्येतावन्मात्रं मूले श्रूयते तत्र चोपक्रमानुसारेण अयनमित्येव विशेष्यं योजनीयं तथापि प्रसिद्धस्य संवत्सराक्यभूतस्य दक्षिणायनस्येहानन्वयात् 'स एतं देवयानं पन्थानम्' इत्यादिश्रुतिप्रयोगप्रसिद्धं विवक्षितार्थान्तरप्रत्यभिज्ञापकमिदं विशेष्यमुपात्तमिति ज्ञेयम्। अर्थान्तरं ज्ञापयितुमुक्तं पितृयाणशब्दितमिति । एवं संवत्सरप्रजापतेर्विभाग उक्तः । तग्र दक्षिणायनसम्बन्धि प्रासङ्गिकं चोक्तम् । अथास्य रयित्वमुच्यते..एष वा इतेि । अत्र यः पितृयाणः एष रयिः' इति श्रूयमाणपदयोजना । तत्र एतच्छब्दः पितृयाणपरामर्शीति स्पष्टम् । पर. पूर्वं दक्षिणं प्रतिपद्यन्त इति दक्षिणमार्गः:प्रस्तुत : । अद्य पितृयाणस्य रयेित्वे उच्यमाने पूर्वेण सह अस्य का सङ्गतिरिति शङ्का जायते । तत्र यः प्रस्तुतो दक्षिणमार्गः स एव पितृयाण इत्युच्यते नान्य इति ज्ञापनीयम् ! ज्ञापितं चैतत् पूर्वमेव 'दक्षिणं पन्थानं पितृयाण शब्दित' मित्यनेन । तदिह पर्यर्वसितगत्या वक्तव्यमर्थ पूर्वोक्तपरामर्शिना एतच्छब्देन लभ्यमानमिव कृत्वा आह--एष एव पितृयाण इति । तस्य कथं रयित्वमित्युपपादनाय विवृणोति-- अन्नेत्यादिना । सूचितमर्थं स्फुटीकर्तुं दक्षिणायनपितृयाणयोर्वैलक्षण्यप्रतिपादनपूर्वकं शङ्कते--यद्यपीति । तथा व दक्षिणायनकालं प्रस्तुत्य, इष्टापूर्तकारिणः पितृयाणेन चन्द्रमसं प्राप्नुवन्तीत्युक्ते का सङ्गतिरीति भावः । समाधत्ते--तथापीति । अयं भावः । दक्षिणायनशब्देन द्वयोरपि व्यवहारोऽस्ति कालस्य च मार्गस्य च । एवमुत्तरायणशब्देनापीति द्रष्टव्यम्। तत्र संवत्सरानुगुणतया कालस्य प्रजापत्यनुगुणत्या मार्गस्य च प्रतीतिर्भवति । एकशब्दोपादानेन तु उभयोरभेदः प्रतीयते । तत्र रूपकाद्यलङ्कारेष्विव एकस्य प्रकृतत्वं अपरस्योपरञ्जकत्वमात्रं, न प्रकृतोपयोगः । तत्रास्य प्रजापतिप्रकरणत्वात् तत्सम्बन्धी मार्ग एव प्रकृतो ग्राह्यः न कालः । तथा च पितृयाणदेवयानमार्गावेव दक्षिणायनोत्तरायणरूपतया इह विवक्षिताविति ।

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्या दित्यमभिजयन्ते। एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायण मेतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेषः श्लोकः ॥ १० ॥

अथोत्तरेणेति । अथशब्दो वाक्यान्तरोपक्रमे । ये तावत् “किं प्रजया करिष्याम " इति विरक्ता ऋषयः कायक्लेशादिलक्षणेन तपसा, स्त्रीसंगराहित्यलक्षणेन