पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

64 श्रीरङ्गरामानुजभाष्ययुक्ता तुशब्द: पक्षं व्यावर्तयति। आध्यात्मिकादिदुःखयोगार्हात् प्रत्यगात्मनोऽधिक- मर्थान्तरभूतं ब्रह्म । कुतः ? भेदनिर्देशात् । प्रत्यगात्मनो हि भेदेन निर्देश्यते परं ब्रह्म “य आत्मन्नि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यम्यात्मा शरीरं य आत्मान- मन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः, पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्त- तस्तेनामृतत्वमेति, स कारणं करणाधिपाधिपः, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति, ज्ञाज्ञौ द्वावजावीशनीशौ, प्राज्ञेनात्मना संपरिष्वक्तः, प्राज्ञेनात्म- नाऽन्वारूढः, अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः, प्रधान- क्षेत्रज्ञपतिर्गुणेशः, नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् , योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण" इत्यादिभिः । अश्मादिवञ्च तदनुपपत्ति" रिति । अश्मकाष्ठलोष्ठतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्य- निर्विकारनिखिलहेयप्रत्यनीककल्याणैः तानस्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैक- स्वरूपनानाविधानन्तमहाविभूतिब्रह्मस्वरूपैक्यं यथा नोपपद्यते, तथा चेतन- स्याप्यनन्तदुःखयोगार्हस्य खद्योतकरूपस्य “अपहतपाप्मे " त्यादिवाक्यावगतसकल- हेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगु(णग)णाकरब्रह्मभावानुपपत्तिः । मानाधिकरण्यनिर्देशः “यस्यात्मा शरीर" मित्यादिश्रुतेर्जीवस्य (पर)ब्रह्मशरीरत्वात् ब्रह्मणो जीवशरीरतया तदात्मत्वेनावस्थितेः जीवप्रकार(क)ब्रह्मप्रतिपादनपरश्चैतद. विरोधी । प्रत्युत्तस्यार्थत्योपंपादकश्चेति “अवस्थितेरिति काशकृत्स्नः" इत्यादिभिर- सकृदुपपादितम् । अतः सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरमिति सूक्ष्मचिदचिद्वस्तु- शरीरं ब्रह्म कारणम् । तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगब्रह्मणोस्सामानाधिकरण्योपपत्तिः । जगतो ब्रह्मकार्यत्वं, ब्रह्मणोऽनन्यत्वं अचि- द्वस्तुनो जीवस्य (च), ब्रह्मणश्च परिणामित्वदुःखित्वकल्याणगुणाकरत्वस्वभावा- संकरः सर्वश्रुत्यविरोधश्च भवति । “सदेव सोम्येदमग्र आसीदेकमेव" इत्यवि- भागावस्थायामप्यचिद्युक्तजीवस्य ब्रह्मशरीरतया सूक्ष्मरूपेणावस्थानमवश्याभ्युपगन्त- व्यम् । “वैषम्यनैर्घृण्ये न सापेक्षत्वात्, न कर्माविभागादिति चेन्नानादित्वादुपपद्यते सा-