पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

, ६.८.] प्रश्नोपनिषत् जीवभेदाद्दोषाभावःसिद्धान्तितः । तथाहि तदधिकरणभाष्यम्- -जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः 'तत्त्वमसि' • अयमात्मा ब्रह्मे ' त्यादिभिर्जीवस्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम् । तत्रेदञ्चोद्यते-~~-यदीतरस्य जीवस्य ब्रह्मभावोऽमीभिर्वा- क्यैयर्व्पदिश्यते, तद। ब्रह्मणःसार्वश्यसत्यसंकल्पत्वादियुक्तस्यात्मनो हितरूपजगद- करणमहितरूपजगत्करणमित्यादयो दोषाः प्रसज्ज्येरन् । आध्यात्मिकाधिदैविकाधि- भौतिकानन्तदुःखाकरश्चेदं जगत् । न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान् प्रवर्तते । जीवात् ब्रह्मणो भेदवादिन्यः श्रुतयः जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः । भेदे सत्यनन्यत्वासिद्धेः । औपाधिकभेदविषया भेदश्रुतयः स्वाभाविकाभेदविषया- श्वाभेदश्रुतय इति चेत्, तत्रेदं वक्तव्यम् । स्वभावतः स्वस्मादभिन्नं जीवं किमनुप- हितं जगत्कारणं ब्रह्म जानाति वा न वा । न जानाति चेत् सर्वज्ञत्वहानिः । जानाति चेत् स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमिति(मेव) जानतो ब्रह्मणो हिता- करणाहितकरणादिदोषप्रसक्तिरनिवार्या । जीवब्रह्मणोरज्ञानकृतो भेदः ; तद्विषया भेदश्रुतिरिति चेत्, तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो विकल्पस्तत्फलञ्च तदवस्थम् । ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तस्कृतजगत्सृष्टिश्च न संभवति । अज्ञानेन प्रकाशस्तिरोहितश्चेत् तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवोदीरितम् । अत इदमसंगतं ब्रह्मणो जगत्कारणत्वमिति “इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति" रिति सूत्रेण पूर्वपक्षं प्रापव्य सिद्धान्तोऽभिधीयते " अधिकस्तु भेदनिर्देशा " दिति । प्रेरितारा मत्वा' 'स कारण करणाधिपाधिपः' 'तयोरन्यः पिप्पलं स्वात्ति अनभमन्योऽभिचाकशीति' 'शाज्ञो द्वावजावीशनीशी' 'प्राझेनात्मना संपरि. ध्वक्तः' 'प्राझेनात्मना अन्वारूढः' 'अस्मान्म यी सृजते विश्वमेतसस्मिंधान्यो मायया सन्निरुद्धः' 'प्रधानलेवापतिर्गुणेशः' 'नित्यो नित्यानां चेतनश्चेतननां' इत्यादिभिक्थैिः भेदनिर्देशात् । किञ्च यथा अश्मोहादीनां अखिलहेयप्रत्या नीककल्याणकतानब्रौक्यानुपपत्तिः एवम् 'अखिलहेयास्पदस्य जीवस्य प्रता- शेन ब्रह्मणैक्यानुपपत्तिरिति सूत्रद्वयार्थः। एवमधिकोपवेशातु बादरायणस्यैव तदर्शनात्' 'भेदव्यपदेशाच्चान्यः' 'सुषुप्त्युत्तान्त्यो देन' 'उभयेऽपि हि भेदेननमधीयते' इत्यादिन्यायाच कुप्येयुरित्यकं प्रपञ्चेन । (इति) पाः प्रभः ।