पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजभाष्ययुक्ता [ ६. ७-८. तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परम- स्तीति ॥ ७॥ तान् होवाचेति । तान् सुकेशादीन् षडपि शिष्यान् प्रत्येतदुवाच । अहमेतावदेव परं ब्रह्म जानामि । परब्रह्मविषये ममैतावदेव ज्ञानं इतोऽधिकं नास्तीत्यर्थः ।। ७॥ स्वतंषु सर्वेषु प्रश्नेषु समाहितेष्यपि, स्वस्वस्थानगमनाय काले प्राप्तेऽपि, षडपि ते ऋषयः ब्रह्मवेदनतृष्णातिशयेन पुनरपि कि किन्दिदाचार्यो वक्ष्यतीति प्रत्याशां कुर्वन्तः, विलम्ब- तप्रस्थानाः, आचार्यं प्रमम्य, तस्याग्रे तूष्णीमतिष्ठन् । तत इङ्गितज्ञ आचार्यस्तानुवाच एतावदे- वेति । इदं क्रियाविशेषणम् ! तदाह-एतावदेव ज्ञानमिति । ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८॥ इति षष्टः प्रश्नः ते तमर्चयन्त इति । ते षडपि शिष्याः तं पिप्पलादं त्वमस्माकं संसारा- कूपारतीरप्रापक्तया पिताऽसि । तस्मात् त्वतो जन्मैव श्रेष्ठं जन्म । “स हि विद्यातस्तं जनयति उच्छ्रेष्ठं जन्मे " ति श्रवणादिति अर्चयन्तः पूजयन्तो बभूवुः । उत्तरशान्तिस्थाने नमः परमऋषिभ्य इति । वाक्याभ्यासः उपनिषत्स- माप्त्यर्थः । न चैतावदेवाहं परं ब्रह्म वेद नातः परमस्तीति शोडशकलजीवातिरिक्त- परब्रह्मनिषेधः किन्न स्यादिति वाच्यम् । “अधिकन्तु भेदनिर्देशा" दित्यादिभिर्वि- रोधप्रसंगात । तत्र हि जीवाभेदात् ब्रह्मणो जगत्कारणत्वे हिताकरणादिदोषपाशंक्य 1.ग्र. 'इति वाक्यम् । अभ्यास' । ना. स्थाने इदम् । वाक्याभ्यास:। 2. ना. तथाहि । स्मृतिपादे तत्वमसि अयमात्मा ब्रह्मेत्यनेन इतरस्य जीवस्यैच ब्रह्मभावव्यपदेशात सार्वज्यसत्यसङ्कल्पत्वादियुक्तस्य अनन्तदु खाकर स्वाना- वह जगत् सृजतो जीवरूपस्य ब्रह्मणः आत्मनो हिताकरणाहितकरणादयो दोषाः प्रादुःष्युरिति 'इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरि ति सूत्रेण पूर्वपक्ष कृत्या 'अधिकन्तु भेदनिर्देशान्' 'अश्मादियश्च तदनुपपत्तिरिति द्वाभ्यां सूत्राभ्यां सिद्धान्तितम् । तुशब्दः पूर्वपक्षे व्यावर्तयति । ब्रह्म प्रत्यगात्मनोऽधि. कम् भित्रम् । कुतः। भेदनिर्देशात् । 'य पात्मनि विष्ठनात्मनोऽन्तरः' 'पृथगात्मानं